SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 1१०९॥ षट् पुनर्विकलाक्षेषु मनुष्येषु चतुर्दश । स्युश्चतस्रश्चतस्रश्च श्वाभ्र-तिर्यक्-सुरेषु तु ॥२२॥ एवं लक्षाणि योनीनामशीतिश्चतुरुत्तरा। सर्वज्ञोपज्ञमुक्तानि सर्वेषामपि जन्मिनाम् ॥२३॥ एकाक्षा बादराः सूक्ष्माः पश्चाक्षाः संज्यसंज्ञिनः । स्युद्धि-त्रि-चतुरक्षाश्च पर्याप्ता इतरेऽपि च ॥२४।। एतानि जीवस्थानानि जिनोक्तानि चतुर्दश । मार्गणा अपि तावन्त्यो ज्ञेयास्ता नामतो यथा ॥२५॥ गती-न्द्रिय-वपु-योग-वेद-ज्ञान-क्रुदादयः। संयमा-ऽऽहार-दृग-लेश्या-भव्य-सम्यक्त्व संझिनः ॥२६॥ मिथ्यादृष्टिः सास्वादन-सम्यग्मिथ्यादृशावपि । अविरतसम्यगदृष्टिविस्ताविरतोऽपि च ॥२७॥ प्रमत्तश्चाप्रमत्तश्च निवृत्तिवादरस्ततः । अनिवृत्तिबादरश्वाथ सूक्ष्मसंपरायकः ॥२८॥ ततः प्रशान्तमोहश्च क्षीणमोहश्च योगवान् । अयोगवानिति गुणस्थानानि स्युश्चतुर्दश ॥२९॥ मिथ्यादृष्टिभवेन्मिथ्यादर्शनस्योदये सति । गुणस्थानत्वमेतस्य भद्रकत्वाद्यपेक्षया ॥३०॥ मिथ्यात्वस्यानुदयेऽनन्तानुबन्ध्युदये सति । सास्वादनः सम्यग्दृष्टिः स्यादुत्कर्षात् षडावलीः ॥३१॥ सम्यक्त्वमिथ्यात्वयोगान्मुहूर्त मिश्रदर्शनः । अविरतसम्यग्दृष्टिरप्रत्याख्यानकोदये ॥३२॥ विरताविरतस्तु स्यात् प्रत्याख्यानोदये सति । प्रमत्तसंयतः प्राप्तसंयमो यः प्रमाद्यति ॥३३॥ १ श्वभ्र-मु. । श्वाभ्रा नारका इत्यर्थः । श्वधि-त्रिषष्टि०४।४।२४४॥ २'काययोग-शां. त्रिषष्टिः ।। ४। २४८॥ ३ क्रुधादयः-खं. त्रिषष्टि०४।४।२४८॥ Jain Education Intel For Private & Personal Use Only G r .jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy