________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम 1180211
Jain Education Inter
00000002920202929
स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ||११|| द्वीन्द्रियाः कृमयः शङ्खा गण्डूपदा जलौकसः । कपर्दाः शुक्तिकाद्याश्च विविधाकृतयो मताः || १२ || यूका - मत्कुण - मत्कोट- लिक्षाद्यास्त्रीन्द्रिया मताः । पतङ्ग - मक्षिका-भृङ्ग-दंशाद्याश्चतुरिन्द्रियाः || १३ || तिर्यग्योनिभवाः शेषा जल - स्थल- खचारिणः । नारका मानवा देवाः सर्वे पञ्चेन्द्रिया मताः || १४ || मनो-भाषा-कायबलत्रयमिन्द्रियपश्चकम् । आयुरुच्छ्रवासनिःश्वासमिति प्राणा दश स्मृताः ||१५|| सर्वजीवेषु देहायुरुच्छ्वासा इन्द्रियाणि च । विकलासंज्ञिनां भाषा पूर्णानां संज्ञिनां मनः ||१६|| उपपादभवा दैव-नारका गर्भजाः पुनः । जरायु-पोता- ऽण्डभवाः, शेषाः सम्मूर्च्छनोद्भवाः ॥१७॥ सम्मूर्च्छिनो नारकाश्च जीवाः पापा नपुंसकाः । देवाः स्त्री-पुंसवेदाः स्युर्वेदत्रयजुषः परे ||१८|| सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा । सूक्ष्मनिगोदा एवान्त्यास्तेऽन्येऽपि व्यवहारिणः ||१९|| सचित्तः संवृतः शीतस्तदन्यो मिश्रितोऽपि वा । विभेदैरान्तरैर्भिन्नो नवधा योनिरङ्गिनाम् ||२०|| प्रत्येकं सप्त लक्षाणि पृथ्वी-वार्यग्नि वायुषु । प्रत्येकाऽनन्तकायेषु क्रमाद्दश चतुर्दश ||२१||
१ – क. ख. छ. । देवा - मु. ॥ २ ख ग च । देवास्तु स्त्रीपुंवेदा:- मु. ॥ ३ - ख. ग. छ. । स्तेभ्योऽन्ये व्यवहारिण:- मु. त्रिषष्टि० ४ । ४ । २४१ । 'ते' सूक्ष्मनिगोदा: 'अन्ये' तद्व्यतिरिक्ता अपि व्यवहारिण इत्यर्थः । तथा च अव्यवहारिणः सूक्ष्मनिगोदा एव, व्यवहारिणस्तु सूक्ष्मनिगोदास्तदितरे च सर्वेऽपि जीवा इति भावः ॥
For Private & Personal Use Only
प्रथम : प्रकाशः
श्लोक : १६
॥१०८॥
5
10
jainelibrary.org