SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ॥१०७॥ Jain Education जीवा ऽजीवावास्रवश्च संवरो निर्जरा तथा । बन्धो मोक्षश्चेति सप्त तत्त्वान्याहुर्मनीषिणः ॥१॥ तत्र जीवा द्विधा ज्ञेया मुक्त संसारिभेदतः । अनादिनिधनाः सर्वे ज्ञान- दर्शनलक्षणाः ||२|| मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शन - ज्ञान - वीर्या ऽऽनन्दमयाश्च ते ||३|| संसारिणो द्विधा जीवाः स्थावरत्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्ता - पर्याप्तविशेषतः ॥४॥ पर्याप्तयस्तु षडिमाः पर्याप्तत्वनिबन्धनम् । आहारो वपुरक्षाणि प्राणा भाषा मनोऽपि च ॥५॥ स्युरेकाक्ष विकलाक्ष- पञ्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च षडू वापि पर्याप्तयो यथाक्रमम् ||६|| एकाक्षाः स्थावरा भूम्यपू- तेजो वायु-महीरुहः । तेषां तु पूर्वे चत्वारः स्युः सूक्ष्मा बादरा अपि ||७|| प्रत्येकाः साधारणा द्विप्रकारा महीरुहः । तत्र पूर्वे बादराः स्युरुत्तरे सूक्ष्म- बादराः ||८|| सा द्वित्रिचतुष्पञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा संज्ञिनोऽसंज्ञिनोऽपि च ॥९॥ शिक्षोपदेशालापान् ये जानते तेऽत्र संज्ञिनः । संप्रवृत्तमनः प्राणास्तेभ्योऽन्ये स्वरसंज्ञिनः ॥१०॥ १ इत आरभ्य सर्वेऽपि ६५ श्लोकाः [५८ तमं श्लोकं विहाय ] विषष्टिशलाकापुरुषचरिते चतुर्थे पर्वणि चतुर्थे सर्गे [ श्लो० २२३-२८६ ] अक्षरशः समानप्रायाः सन्तिः ॥ २ इत आरभ्य एकादश श्लोकाः समानप्रायाः त्रिषष्टि० १ । १ । १५८-१६८ ।। ३ प्राणो - त्रिषष्टि० १ । १ । ५९, ४ । ४ । २२७ ॥ ४ षट् चापि - त्रिषष्टि० ४ । ४ । २२८ ।। For Private & Personal Use Only 10 1180011 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy