________________
स्वोपज्ञवृत्तिविभूषितं
योगशास्त्रम्
॥१०६ ॥
Jain Education Inter
षङ्गदूषितत्वान्न चतुर्वर्गेऽग्रणीर्भवति । कामस्तु सुखानुषङ्गलेशाद् यद्यप्यर्थादुत्कृष्यते तथापि विरसावसानत्वाद् दुर्गतिसाधनत्वाच्च नाग्रणीः । धर्मस्तु ऐहिका - ऽऽमुष्मिक सुखसाधनत्वेन अर्थ- कामाभ्यां यद्यप्युत्कृष्यते तथापि कनकनिगडरूपपुण्यकर्मबन्धननिबन्धनत्वाद्भवभ्रमणहेतुरिति नाग्रणीः । मोक्षस्तु पुण्य-पापक्षय लक्षणो न क्लेशबहुलो न वा विषसम्पृक्तान्नवदापातरमणीयः परिणामदुःखदायी न वा ऐहिका ऽऽमुष्मिकफलाशंसादोषदूषित इति भवति परमानन्दमयश्चतुवर्गेऽग्रणीः । तस्य च कारणं साधकतमं करणं योगः । तस्य किं रूपमित्याह - रत्नत्रयम्, मरकतादिव्यवच्छेदेनाह— ज्ञान- श्रद्धान- चारित्ररूपमिति ॥ १५ ॥
रत्नत्रये प्रथमं ज्ञानस्वरूपमाह -
यथावस्थिततत्त्वानां संक्षेपाद विस्तरेण वा ।
arsaatधस्तत्राहुः सम्यग्ज्ञानं मनीषिणः || १६ ||
स्थितानि नय-प्रमाण प्रतिष्ठितस्वरूपाणि यानि तच्चानि जीवा ऽजीवा ऽऽस्रव-संवर- निर्जरा-बन्ध-मोक्षलक्षणानि तेषां योऽवबोधस्तत् सम्यग्ज्ञानम् । स चावबोधः क्षयोपशमविशेषात् कस्यचित् संक्षेपेण कर्मक्षयात् कस्यचिद्विस्तरेण । तथाहि —
१ ग्रेणी: य:- मु. ॥
२ तमकरणं - शां. ॥
३ श्रव - मु. खं । एवमग्रेऽपि ॥
For Private & Personal Use Only
प्रथमः प्रकाश:
श्लोक : १६
॥१०६ ॥
5
10
jainelibrary.org