SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥१०६ ॥ Jain Education Inter षङ्गदूषितत्वान्न चतुर्वर्गेऽग्रणीर्भवति । कामस्तु सुखानुषङ्गलेशाद् यद्यप्यर्थादुत्कृष्यते तथापि विरसावसानत्वाद् दुर्गतिसाधनत्वाच्च नाग्रणीः । धर्मस्तु ऐहिका - ऽऽमुष्मिक सुखसाधनत्वेन अर्थ- कामाभ्यां यद्यप्युत्कृष्यते तथापि कनकनिगडरूपपुण्यकर्मबन्धननिबन्धनत्वाद्भवभ्रमणहेतुरिति नाग्रणीः । मोक्षस्तु पुण्य-पापक्षय लक्षणो न क्लेशबहुलो न वा विषसम्पृक्तान्नवदापातरमणीयः परिणामदुःखदायी न वा ऐहिका ऽऽमुष्मिकफलाशंसादोषदूषित इति भवति परमानन्दमयश्चतुवर्गेऽग्रणीः । तस्य च कारणं साधकतमं करणं योगः । तस्य किं रूपमित्याह - रत्नत्रयम्, मरकतादिव्यवच्छेदेनाह— ज्ञान- श्रद्धान- चारित्ररूपमिति ॥ १५ ॥ रत्नत्रये प्रथमं ज्ञानस्वरूपमाह - यथावस्थिततत्त्वानां संक्षेपाद विस्तरेण वा । arsaatधस्तत्राहुः सम्यग्ज्ञानं मनीषिणः || १६ || स्थितानि नय-प्रमाण प्रतिष्ठितस्वरूपाणि यानि तच्चानि जीवा ऽजीवा ऽऽस्रव-संवर- निर्जरा-बन्ध-मोक्षलक्षणानि तेषां योऽवबोधस्तत् सम्यग्ज्ञानम् । स चावबोधः क्षयोपशमविशेषात् कस्यचित् संक्षेपेण कर्मक्षयात् कस्यचिद्विस्तरेण । तथाहि — १ ग्रेणी: य:- मु. ॥ २ तमकरणं - शां. ॥ ३ श्रव - मु. खं । एवमग्रेऽपि ॥ For Private & Personal Use Only प्रथमः प्रकाश: श्लोक : १६ ॥१०६ ॥ 5 10 jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy