________________
॥१०॥
पुनरेव योगमेव स्तौति
तस्याजननिरेवास्तु नृपशोर्मोघजन्मनः।
अविद्धकर्णो यो योग इत्यक्षरशलाकया ॥ १४ ॥ न जननमजननिः, “नोऽनिः शापे" [ सिद्धहेम० ५। ३। १२७ ] इत्यनिः। अस्तु भूयात् । ना चासौ पशुश्च नृपशुः, तस्य नृपशोः पशुप्रायपुरुषस्य, मोघजन्मन इति निष्फलजननस्य, यः किम् ? योऽविद्ध
कर्णः, कया ? अक्षरशलाकया, अक्षराण्येव शलाका कर्णवेधजननी अक्षरशलाका । केनोल्लेखेन यान्यक्षराणि ? अत al आह-योग इति, योग इत्यक्षरलक्षणशलाकया योऽविद्धकर्णः लोहादिमयशलाकाविद्धकर्णोऽपि । तस्य नृपशोर्वरमजननियुक्ता, न पुनर्विडम्बनाप्रायं जननमिति ॥१४॥
पुनरपि पूर्वार्धेन योगं स्तुत्वा उत्तरार्धेन तत्स्वरूपमाह
चतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य च कारणम् ।
ज्ञान-श्रद्धान-चारित्ररूपं रत्नत्रयं च सः ॥१५॥ चतुर्वर्गोऽर्थ-काम-धर्म-मोक्षलक्षणः, तस्मिन्नग्रणीः प्रधानं मोक्षः। अर्थों हि अर्जन-रक्षण-नाश-व्ययहेतुकदुःखानु१ अत एव आह-मु.॥
॥१०॥
२७
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org