________________
॥१०॥
स ज्ञानान्मुनिरज्ञासीद् बोधिवीजमिहाहितम् । अवश्यं यास्यति स्फाति पल्वले शालिबीजवत् ।।६१॥ कार्यः सम्यगुपशमो विवेकः संवरोऽपि च । इत्युक्त्वा चारणमुनिः स पक्षीव खमुद्ययौ ॥२॥ पदानि मन्त्रवत् तानि परावर्तयतस्ततः। जज्ञे चिलातीपुत्रस्य तदर्थोल्लेख ईदृशः ॥६३॥ क्रोधादीनां कपायाणां कुर्यादुपशमं सुधीः। हहा तैरहमाक्रान्तश्चन्दनः पन्नगरिव ॥६॥ चिकित्साम्यद्य तदिमान् महारोगानिवात्मनः । क्षमा-मृदुत्व-ऋजुता-सन्तोषपरमौषधैः ॥६५॥ धन-धान्य-हिरण्यादिसर्वस्वत्यागलक्षणम् । विवेकमेकं कुर्वीत बीजं ज्ञानमहातरोः ॥६६॥ तदिदं सुसुमाशीर्ष कृपाणं च करस्थितम् । सर्वस्वभूतं मुश्चामि केतनं पापसम्पदः ॥६७॥ संवरश्चाक्ष-मनसां विषयेभ्यो निवर्त्तनम् । स मया प्रतिपन्नोऽद्य संयमश्रीशिरोमणिः ॥६॥ पदार्थ भावयन्नेवं स रुद्धसकलेन्द्रियः । समाधिमधिगम्याभून्मनोमात्रैकचेतनः ॥६९॥ ततोऽस्य विस्रगन्धासृक्छटाकवचितं वपुः । कीटिकाभिः शतच्छिद्रं चक्रे दारु घुणैरिव ॥७०॥ पिपीलिकोपसर्गेऽपि स स्तम्भ इव निश्चलः । साहिोरात्रयुग्मेन जगाम त्रिदशालयम् ॥७१॥ यदाह
॥१०३॥
१ संरुद्ध-मु. खं. ॥
Jain Education
www.jainelibrary.org
For Private & Personal Use Only
anal