________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥१०२॥
प्रथमः प्रकाशः श्लोक: १३ ॥१०॥
प्रसाद्यते न दानेन विनयेन न गृह्यते । सेवयाऽऽवय॑ते नैव केयं दुःसाधता विधेः ॥४८॥ विबुधैर्बोध्यते नैव बलवद्भिन रुध्यते । न साध्यते तपस्यद्भिः प्रतिमल्लोऽस्तु को विधेः॥४९॥ अहो दैवं मित्रमिव कदाचिदनुकम्पते । कदाचित् परिपन्थीव निःशवं प्रणिहन्ति च ॥५०॥ विधिः पितेव सर्वत्र कदाचित् परिरक्षति । कदाचित् पीडयत्येव दायाद इव दुर्दमः ॥५१॥ विधिर्नयति मार्गेणामार्गस्थमपि कर्हिचित् । कदाचिन्मार्गगमपि विमार्गेण प्रवर्तयेत् ॥५२॥ आनयेदपि दूरस्थं करस्थमपि नाशयेत् । मायेन्द्रजालतुल्यस्य विचित्रा गतयो विधेः ॥५३॥ अनुकूले विधौ पुंसां विषमप्यमृतायते । विपरीते पुनस्तत्रामृतमेव विषायते ॥५४॥ स एवं चिन्तयन्नेव प्राप राजगृहं पुरम् । सशोकः सुंसुमापुच्या विदधे चौर्ध्वदेहिकम् ॥५५॥ वैराग्याद् व्रतमादाय श्रीवीरस्वामिनोऽन्तिके । दुस्तपं स तपस्तेपे पूर्णायुश्च दिवं ययौ ॥५६ चैलातेयोऽप्यनुरागात् सुसुमाया मुहुर्मुहुः । मुखं पश्यन्नविज्ञातश्रमो याम्यां दिशं ययौ ॥५७॥ सर्वसन्तापहरणं छायावृक्षमिवाध्वनि । साधुमेकं ददर्शासौ कायोत्सर्गजुषं पुरः ॥५८॥ स स्वेन कर्मणा तेन किञ्चिद्विग्नमानसः। तमुवाच समाख्याहि धर्म संक्षेपतो मम ॥५९।।
अन्यथा कदलीलावं लविष्यामि शिरस्तव । अनेनैव कृपाणेन सुंसुमाया इव क्षणात् ॥६०॥ १ दुःसाध्यता-मु.॥ २ दुर्मदः-ख. च.॥
Jain Education Inter
For Private & Personal Use Only
ainelibrary.org