________________
।।१०।।
उद्वहन् सुसुमामंसे लतामिव मतङ्गजः । प्रविवेश महारण्यं चिलातीतनयस्ततः ॥३६॥ सूनुभिः पञ्चभिः पश्चाननैरिव धनोऽन्वगात् । कष्टुं पुत्रीं मुखाइस्यो राहोरिन्दुकलामिव ॥३७॥ धने स सविधीभूते मा भवत्वस्य मा मम । सुसुमेति घिया तस्याः शिरःकमलमच्छिनत् ॥३८॥ आकृष्टकरवालोऽसौ हस्तविन्यस्तमस्तकः । तदा यमपुरीद्वारक्षेत्रपाल इवाबभौ ॥३९॥ सुंसुमायाः कबन्धस्यान्तिके स्थित्वा रुदन् धनः । वारीव बाष्पपूरेण नयनालिभिर्ददौ ॥४०॥ तस्याः कबन्धमुत्सृज्य व्यावृत्तः ससुतो धनः। शल्यितः शोकशल्येन महाटव्यामथापतत् ॥४१॥ ललाटन्तपतपनतेजस्तापभयादिव । विष्वक् सङ्कुचितच्छायो मध्याह्नश्च ततोऽभवत् ।।४२॥ शोक-श्रम-सुधा-तृष्णा-मध्याहातपवतिभिः । धनः सुताश्च पश्चाग्निसाधका इव तेपिरे ॥४३॥ न जलं न फलं नान्यद्ददृशुर्जीवनौषधम् । मृत्यवे प्रत्युतापश्यंस्ते हिंस्रश्वापदान् पथि ॥४४॥ आत्मनस्तनयानां च तां पश्यन् विषमां दशाम् । धनश्रेष्ठी पथ्यतुच्छे गच्छन्नेवमचिन्तयत् ॥४५॥ मम सर्वस्वनाशोऽभूत् पुत्री प्राणप्रियाऽमृत । मृत्युकोटि वयं प्राप्ता धिगहो दैवजृम्भितम् ॥४६॥ न यत् पुरुषकारेण साध्यं धीसम्पदा न च। तदेकं दैवमेवेह बलिभ्यो बलवत्तरम् ॥४७॥
॥१०१॥
१ क्रष्टुं-खं ॥
२ इति-खं.॥
३ या मृता-मु.॥
Jain Education Internal
For Private & Personal use only
Jainelibrary.org