SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥१०॥ प्रथमः प्रकाशः श्लोकः १३ ॥१०॥ 5 चैलातेयोऽन्यदोचे स्वानस्ति राजगृहे पुरे। श्रेष्ठी धनोऽनन्तधनो दुहिता चास्य सुसुमा ॥२४॥ तस्करास्तत्र गच्छामो धनं वः, सुंसुमा तु मे। इति व्यवस्थामास्थाय सोऽगाद् धनगृहं निशि ॥२५॥ प्रयोज्य स्वापनी विद्या कीर्तयित्वा स्वमागतम् । स धनं ग्राहयामास, सुसुमां स्वयमग्रहीत् ।।२६॥ . सुप्ताशेषपरीवारः सूनुमिः पञ्चभिः समम् । अपसृत्य धनस्तस्थौ नयो नयवतां ह्यसौ ॥२७॥ जीवग्राहं गृहीत्वा च हृदयेन स सुसुमाम् । चैलातेयः पलायिष्ट सलोत्रैर्दस्युभिः सह ।।२८॥ आहूयारक्षपुरुषान् धनश्रेष्ठीत्यभाषत । चौरापहृतवित्तं वः, प्रत्यानयत सुसुमाम् ॥२९॥ ततो धनः सहारक्षैः पुत्रैश्चायुधपाणिभिः । पुरोगस्वमनःस्पर्द्धयेव त्वरितमन्वगात् ।।३०॥ जलं स्थलं लता वृक्षानन्यदप्यखिलं पथि । पीतोन्मत्तो हैममिव सोऽपश्यत् सुसुमामयम् ॥३१॥ इतः पीतमितो भुक्तमितः स्थितमितो गतम् । एवं वदद्भिः पदिकैः स दस्यूनिकषा ययौ ॥३२॥ हत हतेति गृह्णीत गृह्णीतेति च भाषिणः । मलिम्लुचानाममिलनारक्षपुरुषास्ततः ॥३३॥ दिशो दिशि प्रणेशुस्ते वित्तं त्यक्त्वाऽन्यतस्कराः। सुसुमां स तु नामुश्चचौरो व्याघ्रो मृगीमिव ॥३४॥ आरक्षपुरुषास्ते तु तद्वित्तं प्राप्य पुष्कलम् । व्यावर्तन्त कृतार्थों हि सर्वः स्यादन्यथामतिः॥३५॥ १ धनः-खं.॥ २ ततः पीत-शां. ॥ - Jain Education Inter For Private & Personal Use Only Viainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy