SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ।। ९८ ।। Jain Education Inter तत्कालं तत्क्षणं कृतं यद् दुष्कर्म्म स्त्रीवधलक्षणं तेन कर्म्मठः कर्म्मशूरस्तस्य दुरात्मन इति पापकरण कालापेक्षम्, चिलातीपुत्राभिधानस्य गोत्रे दुर्गतिपातरक्षकाय योगाय को न स्पृहयेत् ? सर्व एव स्पृहयेदित्यर्थः । तथाहि क्षितिप्रतिष्ठे नगरे यज्ञदेवोऽभवद् द्विजः । निनिन्द पण्डितम्मन्यः स सदा जिनशासनम् ॥ | १ || असहिष्णुश्च तां निन्दां जिगीषुः कोऽपि चेल्लकः । गुरुणा वार्यमाणोऽपि तं वादार्थमवीवदत् ||२|| ईदृशी च प्रतिज्ञाऽभूद् वादाधिष्ठितयोस्तयोः । येन यो जेष्यते तस्य शिष्यत्वं स करिष्यति ||३|| आनीतो निग्रहस्थानं बुद्धिकौशलशालिना । विवदन् वादिना तेन यज्ञदेवः पराजितः ||४|| चेल्लको जितकाशी तु यज्ञदेवद्विजन्मना । तदा पूर्वप्रतिज्ञातां परिव्रज्यामजिग्रहत् ॥५॥ ततः शासनदेव्यैवं यज्ञदेवो व्यबोध्यत । चारित्रं प्रतिपन्नोऽसि ज्ञान - श्रद्धानवान् भव ||६|| तं ततः प्रभृत्येष यथावत् पालयन्नपि । निनिन्द वस्त्राङ्गमलं, प्राकूसंस्कारो हि दुस्त्यजः ||७|| अशाम्यन् ज्ञातयोऽप्यस्य संसर्गेण महात्मनः । प्रावृषेण्याभ्रसम्पर्केणा हिमांशोरिवांशवः ||८|| अस्य पाणिगृहीती तु नितान्तमनुरागिणी । उज्झाञ्चकार नो रागं नीलीरक्तेव शाटिका ||९|| arat मेsस्त्विति सा तस्मै पारणे कार्म्मणं ददौ । सत्यं रक्ता विरक्ताश्च मारयन्त्येव योषितः ||१०|| १ जितकासी - शां. खं. ॥ For Private & Personal Use Only प्रथम : प्रकाशः श्लोक १३ 11 82 11 5 10 jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy