________________
।। ९७ ।।
Jain Education Inter
कन् दुर्गतिगुप्ते स्वं प्रक्षिपति तत्र यः । कथं कुष्णाम्यहं तस्मै प्रहारानपि कुर्वते ॥ ४५ ॥ मत्पापानि व्यपोहन्ति निजपुण्यव्ययेन ये । कथङ्कारमिवैतेभ्योऽपरः परमबान्धवः ||४६ ॥
धन्धादि हर्षाय, यन्मे संसारमोचनम् । तदेवानन्तसंसारहेतुरेषां दुनोति माम् ||४७|| केचित् परेषां तोषाय त्यजन्त्यर्थान् वपूंष्यपि । एषां प्रीतिदमाक्रोश- हननादि कियन् मम ||४८ || तर्जितोऽहं हतो नाऽस्मि, हतो वा नास्मि मारितः । मारितो वा न मे धर्मोऽपहृतो बान्धवैरिव ॥४९॥ आक्रोशवागधिक्षेपो बन्धनं हननं मृतिः । सां श्रेयोऽर्थिना सर्व श्रेयो हि बहुविघ्नकम् ||५०|| एवं भावयता तेन गर्हता स्वं च दुष्कृतम् । निर्दग्धः सर्वतः कर्म्मराशिः कक्ष इवाग्निना ॥५१॥ अम्लानं केवलज्ञानमथ लेभे स दुर्लभम् । अयोगिकेवलिगुणस्थानस्थो मोक्षमाप च ॥५२॥ योगप्रभावेण दृढप्रहारी यथैष मुक्त्वा नरका तिथित्वम् ।
पदं प्रपेदे परमं तथान्योऽप्यसंशयानः प्रयतेत योगे ॥ ५३ ॥ ॥ १२ ॥ पुनरुदाहरणान्तरेण योगश्रद्धामेव वर्द्धयति
तत्कालकृतदुष्कर्मकर्मठस्य दुरात्मनः ।
गोत्रे चिलातीपुत्रस्य योगाय स्पृहयेन्न कः || १३ |
मु. ॥
१ - ख च । सुदुर्लभम्
૫
For Private & Personal Use Only
10
।। ९७ ।।
jainelibrary.org