________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
प्रथमः प्रकाशः श्लोकः १२ ॥ ९६ ॥
पूर्वावस्कन्दिते तस्मिन्नेव ग्रामे कुशस्थले । कर्मक्षयं चिकीर्षुः स विजहार महामनाः ॥३३॥ स एवायं कृतच्छा पापः पापीयसामहो । इत्यतयंत लोकेन स महात्मा दिवानिशम् ॥३४॥ गो-भ्रूण-द्विजघात्येष इति लोकेन जल्पता। विशन् गृहेषु भिक्षार्थ श्वेव लोष्टैरकुट्यत ॥३५॥ स्मार्यमाणस्तु तत्पापं प्रतिवासरमप्यसौ । शान्तस्वान्तो न भुङ्क्ते स्म, किंवा सत्त्वस्य दुष्करम् ॥३६॥ क्वचित् प्रातः क्वचिन्मध्यंदिने सायमपि क्वचित । स्मार्यमाणः स तत्पापं कुत्राप्यति न भुक्तवान् ॥३७॥ लोष्टुभिर्यष्टिभिः पांसुवृष्टिभिर्मुष्टिभिर्जनाः। यजघ्नुः सोऽधिसेहे तत् सम्यक् चैवमभावयत् ॥३८॥ आत्मन् यादृक् कृतं कर्म तादृशं फलमाप्नुहि । यादृक्षमुप्यते बीजं फलं तादृक्षमाप्यते ॥३९॥ यदमी निरनुक्रोशमाक्रोशान् मयि तन्वते । अयत्नेनैव सिद्धा तन्ममेयं कर्मनिर्जरा ॥४०॥ मय्याक्रोशाः प्रमोदाय यथैषां मे तथैव हि । यत् प्रीत्या सहमानस्य कर्मक्षयविधायिनः ॥४१॥ यन्मां भर्त्सयतामेषां सुखमुत्पद्यतेऽद्य तत् । उत्पद्यतां भवे हन्त दुर्लभः सुखसङ्गमः ॥४२॥ अमी मदीयं दुष्कर्मग्रन्थिं परुषभाषितैः । क्षारैरिव चिकित्सन्तो नितान्तसुहृदो मम ॥४३॥ कुर्वन्तु ताडनं हन्त ममैते यदिदं किल । स्वर्णस्येवाग्निसंतापो मलिनत्वमपोहति ॥४४॥ १ च्छद्म-शां. ॥ २'माणः स तत्पा-मु.॥ ३ लेष्टु०-खं. ॥ ४ नितान्तं-मु.॥
Jain Education Intel
For Private & Personal Use Only
Sr.jainelibrary.org