SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ।। ९५ ।। Jain Education Inte ततो जरायुमध्यस्थं तस्या गर्भ द्विधाकृतम् । स स्फुरन्तं निरैक्षिष्ट लताया इव पल्लवम् ||२१|| तथा सम्पश्यमानस्य तस्य विह्वलचेतसः । कृपा गतकृपस्यापि जज्ञे वल्कमिवाश्मनः ||२२|| ततो हा तात तातेति हा मातर्मातरित्यपि । विलपन्तः समाजग्मुस्तत्कालं द्विजबालकाः ||२३|| नग्नान् भुग्नानतिक्षामान् श्यामानतिमलेन च । दृष्ट्वा दृढप्रहारी तान् सानुतापमचिन्तयत् ||२४|| हा घ्नता निर्घृणेन दरिद्रौ दम्पती मया । अमी बाला हतास्तोयशोषे जीवन्ति किं झषाः ||२५|| क्रूरेण कर्मणानेन नेष्यमाणस्य दुर्गतिम् । अधभीतस्य मे कः स्यादुपायः शरणं चकः ||२६|| सचिव वैराग्य वेगभागसौ । एनोगदागदङ्कारान् साधूनुद्यान ऐक्षत ||२७|| नत्वोवाचेत्यहं पापो भाष्यमाणोऽपि पाप्मने । पङ्किलः स्पृश्यमानोऽपि पङ्किलीकुरुते परम् ||२८|| येषामेकमपि नरकायैव तान्यहम् । ब्रह्म- स्त्री-भ्रूण- गोघातपातकान्यकृपो व्यधाम् ||२९|| मामीदृशमपि त्रातुं साधवो यूयमर्हथ । मेघानां वर्षतां स्थानमस्थानं वा न किश्चन ||३०| अथ ते साधवस्तस्मै यतिधर्ममुपादिशन् । सोऽथ च्छत्रमिवोष्णार्त्तः पापभीरुस्तमाददे ||३१|| न भोये तत्र यत्रा स्मरिष्याम्यस्य पाप्मनः । करिष्ये सर्वथा क्षान्तिं सोऽग्रहीदित्यभिग्रह ||३२|| १ दिग्धानति - शां. घ ङ. छ. ॥ २ पाप्मा - शां. मु. ॥ ३ 'तरमपि - मु. ॥ For Private & Personal Use Only ४ बोष्णालुः -- खं. मु. ॥ 10 ॥ ९५ ॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy