________________
तेनैव भवेन मोक्षगमनात् । प्रभृतिग्रहणादन्येऽपि पापकारिणो विदितजिनवचनास्तत एव प्राप्तयोगसम्पदो नरकप्राप्तियोग्यानि कर्माणि निर्मूल्य परमसम्पदमासादितवन्तो द्रष्टव्याः। यदाह
" कूरा वि सहावेणं विसयविसवसाणुगा वि होऊण ।
भावियजिणवयणमणा तैलोकसुहावहा होति ॥१॥" [ ] इति । तथाहिकस्मिंश्चिन्नगरे कश्चिदासीद् द्विजातिरुद्भटः। प्रजासु कर्तुमन्यायान् प्रावर्त्तत स पापधीः ॥१॥ आरक्षपुरुषैरेष ततो निर्वासितः पुरात् । व्याधहस्तमिव श्येनश्चौरपल्ली जगाम च ॥२॥ नृशंसचरितस्तैस्तैरात्मनस्तुल्य इत्यसौ । चौरसेनाधिपतिना पुत्रत्वेनान्वमन्यत ॥३॥ चौरसेनापतौ तस्मिन्नवसानमुपेयुषि । तत्पुत्र इति तत्स्थाने स बभूव महाभुजः ॥४॥ निष्कृपं प्रहरत्येष सर्वेषां प्राणिनां यतः । ततो दृढप्रहारीति नाम्ना निजगदे जनैः ॥५॥ अन्येधुर्विश्वकुट्टाकलुण्टाकभटपेटकैः । स कुशस्थलनामानं ग्राम लुण्टयितुं ययौ ॥६॥ ब्राह्मणो देवशमेति तत्र दारिद्र्यविद्रुतः । अवकेशी फलमिव क्षीरानं याचितोऽर्भकैः ॥७॥
पर्यट्य सकले ग्रामे क्वापि क्वापि स तन्दुलान् । क्वापि क्वापि पयोऽभ्यर्थ्य परमान्नमपीपचत् ॥८॥ १ "क्रूरा अपि स्वभावेन विषय विषवशानुगा अपि भूत्वा। भावितजिनवचनमनसः त्रैलोक्यसुखावहा भवन्ति ॥" छाया ।। २ होऊणं-मु.॥ ३ तेलुक्कसुहावहा होति-मु.॥
Jain Education Inter
For Private & Personal Use Only
O
w.jainelibrary.org