SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाश: श्लोकः १२ ॥ ९२ ॥ “जह एगा मरुदेवा अच्चतं थावरा सिद्धा।" [ आव० नि० १०३६ ] मरुदेवाचरितं चोक्तप्रायम् ॥११॥ ननु जन्मान्तरेऽपि अकृतक्रूरकर्मणां मरुदेवादीनां योगबलेन युक्तः कर्मक्षयः, ये त्वत्यन्तक्रूरकर्माणस्तेषु योगः कुण्ठतामप्यासादयेत् । इत्याह __ब्रह्म-स्त्री-भ्रूण-गोघातपातकान्नरकातिथेः। __दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् ॥१२॥ ब्रह्मणो ब्राह्मणस्य, स्त्रिया वनितायाः, भ्रूणस्य गर्भस्य गर्भिण्याश्च, गोर्धेनोः, तेषां घातः, स एव पातकम् , तस्मात् । थद्यपि समदर्शिनां ब्राह्मणाब्राह्मणयोः स्त्रीपुरुषयोभ्रूणाभ्रूणयोर्गवागवोर्घातेऽविशेषेण पापबन्धः । यदाह " सव्वो न हिसियन्वो जह महिपालो तहा उदयपालो। न य अभयदाणवइणा जणोवमाणेण होयव्वं ॥" [ उपदेश० ४६३ ] । तथापि लोकप्रसिद्धयनुरोधेन ब्रह्मत्याद्युक्तम् । ये हि लौकिकाः सर्वस्या हिंसायाः पापफलं न मन्यन्ते तेऽपि ब्रह्मादिघातकस्य महापापीयस्तां मन्यन्त एवेति । नरकातिथेदृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् , १ " एवं बदमबद्धं आएसाणं भवंति पंच सया।" इति पूर्वार्धम् । " यथैका मरुदेवा अत्यन्तं स्थावरा सिद्धा।" छाया । २" सो न हिंसितव्यो यथा महीपालस्तथा उदकपालः । न च अभयदानवतिना जनोपमानेन भवितव्यम् ।"-छाया ॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy