SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ॥ ९१ ॥ Jain Education Inte अचिन्तयच्च घिगहो वपुषो भूषणादिभिः । श्रीराहायैव कुड्यस्य पुस्ताद्यैरिव कर्म्मभिः ||५०६ || अन्तः किन्नस्य विष्टाद्यैर्मलैः स्रोतोभवैर्बहिः । चिन्त्यमानं किमप्यस्य शरीरस्य न शोभनम् ||५०७ || इदं शरीरं कर्पूर कस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपयां परभूरिव ||५०८ || विरज्य विषयेभ्यो येस्तेपे मोक्षफलं तपः । तैरेव फलमेतस्य जगृहे तच्चवेदिभिः ||५०९ || इति चिन्तयतस्तस्य शुक्र ध्यानमुपेयुषः । उत्पेदे केवलज्ञानमहो योगस्य जृम्भितम् ||५१० | रजोहरणमुख्यानि मुनिचिह्नानि तत्क्षणात् । विनीत उपनीयास्मै नमश्चक्रे दिवस्पतिः ॥ ५११॥ तद्राज्येऽकृत तत्पुत्रमादित्ययशसं तदा । यदाद्यादित्यवंशोऽयमद्याप्यस्ति महीभुजाम् ||५१२ ||१०|| स्यान्मतम् - युक्तं भरतस्य पूर्वजन्मार्जितयोगसमृद्धिबलक्षविताशुभकर्मणः कर्मलेशक्षपणाय योगप्रभाववर्णनम् । यस्तु जन्मान्तरेषु अलब्धरत्नत्रयोऽत एवाक्षपितकर्मा मानुषत्वमात्रमप्यप्राप्तवान् स कथमनन्तकालप्रचितशुभाशुभकर्मनिर्मूलनमनुभवेत् । तत्राह -- पूर्वमप्राप्तधर्मापि परमानन्दनन्दिता । योगप्रभावतः प्राप मरुदेवा परं पदम् ||११॥ मरुदेवा हि स्वामिनी आसंसारं त्रसत्वमात्रमपि नानुभूतवती, किं पुनर्मानुषत्वम्, तथापि योगबल समिद्धेन शुक्लध्यानाग्निना चिरसञ्चितानि कर्मेन्धनानि भस्मसात् कृतवती । यदाह For Private & Personal Use Only 5 10 ॥ ९१ ॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy