________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
प्रथमः प्रकाश: श्लोकः १० ॥९ ॥
तदा निर्वाणमहिमा चक्रे शक्रादिमिः सुरैः । अस्तोकशोकः शक्रेण भरतेशोऽप्यबोध्यत ॥४९५॥ चक्रेऽथ भरतो रत्नमयमष्टापदोपरि । सिंहनिषद्याप्रासादमष्टापदमिवापरम् ॥४९६॥ तत्र च स्वामिनो मान-वर्ण-संस्थानशोभितम् । रत्नोपलमयं विम्बं स्थापयामास चक्रभृत् ॥४९७॥ स्वामिशिष्टत्रयोविशिभावितीर्थकृतामपि। यथावन्मान-संस्थान-वर्णेम्बिान्यस्त्रयत् ॥४९८॥ भ्रातृणां नवनवतेरपि तत्र महात्मनाम् । रचयामास रत्नाश्मस्तूपाननुपमान् नृपः ॥४९९॥ पुनरेत्य निजां राजधानी राजशिरोमणिः । यथावद्राज्यमशिषत् प्रजारक्षणदीक्षितः ॥५००॥ स कर्मभिर्भागफलैः प्रेर्यमाणो निरन्तरम् । बुभुजे विविधान् भोगान् साक्षादिव दिवस्पतिः ॥५०१॥ नेपथ्यकर्म निर्मातुमपरेधुरगादसौ । मध्ये शुद्धान्तनारीणां ताराणामिव चन्द्रमाः ॥५०२।। तत्र सर्वाङ्गविन्यस्तरत्नाभरणविम्वितैः । स्त्रीजनैयुगपत् प्रेम्णा परिब्ध इवाभवत् ॥५०३।। पश्यन्नसौ स्वमादर्शेऽपश्यत् स्रस्ताङ्गुलीयकाम् । अङ्गुलिं गलितज्योत्स्नां दिवा शशिकलामिव ।५०४॥
ततः प्रोभिन्ननिर्वेदात् प्रत्यङ्गोज्झितभूषणम् । स्वमपश्यद् गतश्रीकं शीर्णपर्णमिव द्रुमम् ।५०५॥ १ प्रमोश्चक्रे सुरासुरैः-ग. च.। चक्रे शरैः सुरासुरैः-शां. खं. ॥ २ ततोऽसौ विदधे रत्न -खं. ख. च.॥ ३ त्रयोविंश-खं. मु. "डिन् । ७ । १।१४७ । शन-श-विंशतिभ्यः स्यन्तेभ्यो मानार्थेभ्य: षष्ठयर्थे डिन् स्यात् ! ......विशिनो भवनेन्द्रा ।" -सि. ल० ॥ ४ स्वकर्म-खं. ॥ ५ श्लोकपञ्चकतुलना-त्रिषष्टि० १।६। ७३२-७३७ ॥
For Private & Personal Use Only
Jain Education Inter
B
w.jainelibrary.org