________________
स्वोपज्ञवृत्तिविभूषितं
योगशास्त्रम्
11 22 11
Jain Education Inter
ततोऽसौ चिन्तयामास कुतस्त्यो हस्तिसङ्गमः । पादपारोहमारूढवल्लीकवपुषो मम ॥४६७॥ त्यजेन्मुद्रां समुद्रोऽपि चलेयुरचला अपि । इमे तु भगवच्छिष्ये भाषेते न मृषा क्वचित् ||४६८ || आज्ञातमथवाऽस्त्येष मान एव मतङ्गजः । स एव मे ज्ञानफलं बभञ्ज विनयद्रुमम् ||४६९ || 'कथं कनीयसो आतून् वन्दे' धिगिति चिन्तितम् । तपसा ज्यायसां तेषां मिथ्यादुष्कृतमस्तु मे ॥ ४७०॥ सुरासुरनमस्यस्य गत्वा भगवतोऽन्तिके । वन्दे कनिष्ठानपि तांस्तच्छिष्यपरमाणुवत् ||४७१॥ अचलत् पादमुत्पाट्य यावत्तावदसौ मुनिः । अवाप केवलज्ञानं द्वारं निर्वाणवेश्मनः || ४७२ || कमलकवद्विश्वं कलयन् केवलश्रिया । समीपे स्वामिनोऽध्यास्त सदः केवलभास्वताम् । ४७३॥ भरतोऽपि महारत्नैश्चतुर्द्दशभिराश्रितः । चतुःषष्टिसहस्रान्तः पुरो नवनिधीश्वरः || ४७४ ॥ धर्मार्थकामान् साम्राज्यसम्पद्वल्ले: फलोपमान् । परस्पराविरोधेन यथाकालमसेवत ॥ ४७५ ॥ अन्यदा विहरन् स्वामी जगामाष्टापदाचलम् । भरतोऽपि ययौ तत्र स्वामिपादान् विवन्दिषुः ॥ ४७६ ॥ सुरासुराच्यं समवसरणस्थं जगत्पतिम् । स त्रिः प्रदक्षिणीकृत्य नमस्कृत्येति तुष्टुवे ॥४७७॥ विश्वासमिव मूर्त्तिस्थं सद्वृत्तमिव पिण्डितम् । प्रसादभित्र निःशेषजगतामेकतः स्थितम् ||४७८ || ज्ञानराशिमिवाध्यक्षं पुण्यस्येव समुच्चयम् । सर्वलोकस्य सर्वस्वमिवैकत्र समाहृतम् ||४७९॥ वपुःस्थं संयममिवोपकारमिव रूपिणम् । शीलमिव पादचारि क्षमामिव वपुष्मतीम् ||४८० ||
For Private & Personal Use Only
प्रथम: प्रकाशः
श्लोक : १०
11 26 11
5
10
ww.jainelibrary.org