________________
॥ ८७॥
स्वशक्ति ये न जानन्ति ये चान्यायं प्रकुर्वते । जीयन्ते ये च लोभेन तेषामस्मि धुरन्धरः ॥४५६॥ राज्यं भवतरो/जं ये न जानन्ति तेऽधमाः । तेभ्योऽप्यहं विशिष्येय तदमुञ्चन् विदन्नपि ॥४५७।। त्वमेव पुत्रस्तातस्य यस्तातपथमन्वगाः। पुत्रोऽहमपि तस्य स्यां चेद् भवामि भवादृशः ।४५८।। विषादपङ्कमुत्सार्य पश्चात्तापजलैरिति । तत्पुत्रं सोमयशसं तद्राज्ये स न्यवी विशत् ॥४५९॥ तदादि सोमवंशोऽभूच्छाखाशतसमाकुलः । तत्तत्पुरुषरत्नानामेकमुत्पत्तिकारणम् ॥४६०॥ ततो बाहुबलिं नत्वा भरतः सपरिच्छदः। पुरीमयोध्यामगमत् स्वाराज्यश्रीसहोदराम् ॥४६१॥ दुस्तपं तप्यमानोऽथ तपो बाहुबलिर्मुनिः । वर्षमेकं व्यतीयाय सह प्राग्जन्मकर्मभिः ॥४६२॥ ततश्वामूढलक्ष्येण स्वामिना नाभिसूनुना । ब्राह्मी च सुन्दरी चानुज्ञाते तत्पार्श्वमीयतुः ॥४६३॥ ऊचतुश्च 'महासत्त्व समस्वर्णाश्मनस्तव । न युक्तं त्यक्तसङ्गस्य करिस्कन्धाधिरोहणम ॥४६४॥ एवम्भूतस्य ते हन्त कथं ज्ञानं प्ररोहति । अधःस्थितकरीषाग्नेः पादपस्येव पल्लवः ॥४६५॥
आत्मनैव विचार्य त्वमुत्तितीपुभवोदधिम् । हस्तिनोऽस्मादवतर तरण्डादायसादिव' ॥४६६।। १ विशिष्ये यत्तद-मु. खं.॥ २ स्वरा-शां. मु.। श्वरा-खं । परन्तु 'स्वाराज्य' इति पाठः समीचीनो भाति, स्वर्गराज्यम् ' इति च तस्यार्थः। त्रिषष्टिशलाकापुरुषचरिते प्रथमे पर्वणि पञ्चमे सर्गेऽपि अयमेव श्लोक: [७५६ ] वर्तते, तत्रापि 'स्वाराज्य' इत्येव पाठः॥
॥८७
Jain Education
anal
For Private & Personal use only
| www.jainelibrary.org