________________
हस्त्यश्वपत्तिघातेन किं मुधा पापदायिना। यद्यलं तत्वमेकाकी युद्धयस्वैकाकिना मया ॥४३१॥ एकाङ्गाजि प्रतिज्ञाय द्वाभ्यामपि निवारिताः । सैनिका उभयेऽप्यस्थुः पश्यन्तः साक्षिणो यथा ॥४३२॥ ततो दृग्युद्ध आरब्धे निर्निमेषविलोचनौ । देवैरपि नृदेवौ तौ देवाविति वितर्कितौ ॥४३३॥ भरते निर्जिते तत्र सभ्यीभूतामरं तयोः । वाग्युद्धमभवत् पक्षप्रतिपक्षपरिग्रहात् ॥४३४॥ तत्रापि हीनवादित्वं भरते समुपेयुषि । भूभुजौ भुजयुद्धेन युयुधाते महाभुजौ ॥४३५॥ भरतो लम्बमानोऽथ बाहौ बाहुबलेः स्थिरे । शाखामृगो महाशाखिशाखायामिव वीक्षितः ॥४३६॥ भरतस्य महाबाहोरपि बाहुबलिबली। एकेन वाहुना बाहुं लतानाममनामयत् ॥४३७॥ प्रारब्धे मुष्टियुद्धेऽथ पेतुर्भरतमुष्टयः । बाहुबलौ समुद्रोर्मिघाता इव तटाचले ॥४३८॥ आहतो बाहुबलिना वज्रकल्पेन मुष्टिना । पपात भरतः पृथ्व्यां स्वसैन्याश्रुजलैः सह ॥४३९॥ मूर्ध्वान्ते भरतो बाहुबलिं दण्डेन दर्पतः । ताडयामास दन्तीव तिर्यग्दन्तेन पर्वतम् ॥४४०॥ दण्डेन बाहुबलिना निहतो भरतस्ततः । भूम्यामाजानुमग्नोऽस्थानिखात इव कीलकः ॥४४१॥ किमेष चक्रवर्तीति भरतः कृतसंशयः । यावत् संस्मृतवांश्चक्रं तावदागात् करेऽस्य तत् ॥४४२॥
भूमेनिःसृत्य कोपेन महता भरतेश्वरः । चिक्षेप प्रज्वलच्चक्रं कृतहाहावं बलैः ॥४४३॥ १ साक्षीभूता-मु.॥
॥ ८५॥
Jain Education Intent
For Private & Personal Use Only
jainelibrary.org