SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ स्वीपज्ञवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाश: श्लोकः १० ॥ ८४ ॥ आर्जवानागताः सत्यं कौटिल्यं भरतेन किम् । विमृश्यकारिणः सन्तो दृयन्ते किं खलोक्तिमिः ॥४१८॥ एक एवावयोः स्वामी भगवानादितीर्थकृत् । तस्मिन् विजयिनि स्वामी कथङ्कारं ममापरः ॥४१९।। भ्राताम्यभीः स चाज्ञेश आज्ञापयतु यद्यलम् । ज्ञातिस्नेहेन, किं वज्र वज्रेण न विदार्यते ॥४२०॥ सुरासुरनरोपास्त्या प्रीतोऽस्त्वेष मयास्य किम् । मार्ग एव क्षमः स्तम्बे स्थः सजोऽपि भज्यते ॥४२१॥ तातभक्तो महेन्द्रश्चेज्ज्येष्ठं तं तातनन्दनम् । आसयत्यासनस्यार्द्ध स किं तेनापि दृप्यति ॥४२२॥ तेऽन्ये तस्मिन् समुद्रे ये ससैन्याः सक्तुमुष्टिवत् । तेजोभिर्दुःसहोऽहं तु हन्त स्यां वडवानलः ॥४२३॥ पत्तयोऽश्वा रथा नागाः सेनानीर्भरतोऽपि च । मयि सर्वे प्रलीयन्तां तेजांसीवार्कतेजसि ॥४२४६ . याहि दूत स एवैतु राज्यजीवितकाम्यया । तातदत्तांशतुष्टेन मयैवोपैक्षि तस्य भूः ॥४२५॥ दृतेनागत्य विज्ञप्ते यथार्थे तेन तत्क्षणम् । युयुत्सु हुबलिना भरतोऽथाभ्यषेणयत् ॥४२६॥ छादयन् मेदिनी सैन्यैर्घनर्तुाँ धनेरिव । महाबाहुस्ततो बाहुबलिर्भरतमभ्यगात् ॥४२७॥ उभयोरपि वाहिन्योर्महासुभटयादसोः । अन्योऽन्यास्फालितास्रोमिः सम्फेटोऽभूद् भयानकः ॥४२८॥ तत्सैनिकानामन्योऽन्यं कुन्ताकुन्ति शराशरि । आमन्त्रितश्राद्धदेवः प्रावर्त्तत रणक्षणः ॥४२९॥ पर्यस्याशेषसैन्यानि तूलानीव महाबलः । अभ्येत्य भरतं बाहुबलिरेवमवोचत ॥४३०॥ १ नागत:-खं.॥ २ प्रलोकषट्कं त्रिषष्टि० १।५ । १४५-१४९, १५४ ॥ Jain Education Inter For Private & Personal use only Oww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy