________________
॥ ८३॥
वीरमानितया यद्वा राजानमवमन्यसे । त्वं हि तस्मिन् ससैन्योऽपि समुद्रे सक्तुमुष्टिवत् ॥४०५॥ लक्षाश्चतुरशीतिस्तद्गजाः शक्रेभसन्निभाः। सह्याः केनाभिसर्पन्तः पद्धता इब जङ्गमाः ॥४०६।। तावतोऽश्वान् रथांश्वास्य विष्वक् प्लावयतो महीम् । कल्लोलानिव कल्पान्तोदधेः कः स्खलयिष्यति ।।४०७।। तस्य षण्णवतिग्रामकोटिभर्तुः पदातयः । कोट्यः षण्णवतिः सिंहा इव त्रासाय कस्य न ॥४०८॥ एकः सुषेणसेनानीर्दण्डपाणिः समापतन् । कृतान्त इव किं शक्यः सोढुं देवासुरैरपि ॥४०९॥ अमोघं बिभ्रतश्चक्रं चक्रिणो भरतस्य तु । सूर्यस्येव तमस्तोमः स्तोकिकैव त्रिलोक्यपि ॥४१०॥ तेजसा वयसा ज्येष्ठो नृपश्रेष्ठः स सर्वथा । राज्यजीवितकामेन सेव्यो बाहुबले त्वया ॥४११॥ अथ बाहुबलिर्बाहुबलापास्तजगबलः । ऊचे भ्रूभङ्गभृद्धीरध्वानोऽर्णव इवापरः ॥४१२॥ युक्तं यदुक्तं भवता लोभनं क्षोभणं वचः । दूता खलु यथावस्थस्वामिवाचिकवाचिनः ॥४१३॥ सुरासुरनरेन्द्रायॊ न तातो न च विक्रमः। श्लाघाहेतुर्मे भरतः कीर्त्तितो दूत नूतनः ॥४१४॥ करदीभूय भूपाला नागच्छन्तु कथं नु तम् । दृश्यते नन्वसौ यस्य भ्राता बाहुबलिर्बली ॥४१५॥ आवयोर्ननु मार्तण्ड-पङ्करुट्खण्डयोरिव । किं न स्याद् व्यवहितयोरपि प्रीतिः परस्परम् ।।४१६।। सदा मनसि तिष्ठामस्तस्य भ्रातुरहो वयम् । गत्वा किमतिरिच्येत प्रीतिनैसर्गिकी हि नः ॥४१७॥ १-जैमुपा. । न तातोत्तमविक्रम:-मु.॥
Jain Education in
For Private & Personal Use Only
alww.jainelibrary.org