SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् प्रथमः प्रकाशः श्लोकः १० ॥ ८२॥ वैमात्रेयं कनीयांसमथ बाहुबलिं प्रति । दूतं तक्षशिलापु- प्रेषयामास पार्थिवः ॥३९४॥ शैलशृङ्गे सिंहमिवोत्तुङ्गसिंहासने स्थितम् । नत्वा बाहुबलिं दूतो युक्तिस्यूतमवोचत ॥३९५॥ त्वमेकः श्लाघ्यसे यस्य ज्येष्ठो भ्राता जगज्जयी । पटूखण्डभरताधीशो लोकोत्तरपराक्रमः ॥३९६॥ त्वद्भातुश्चक्रवर्तित्वाभिषेके के महीभुजः। मङ्गल्योपायनकराः करदीय नाययुः ॥३९७॥ सूर्योदय इवाम्भोजखण्डस्य भरतोदयः। श्रिये तवैव किन्त्वस्याभिषेके न त्वमागमः ॥३९८॥ ततः कुमार भवतोऽसमागमनकारणम् । ज्ञातुं राज्ञा नयज्ञेनाऽऽज्ञापितोऽहमिहागमम् ॥३९९॥ नाऽऽगा यद्यार्जवेनापि तत्र कोऽपि जनः पुनः। तवाविनीततां ब्रूते यच्छिद्रान्वेषिणः खलाः ॥४००॥ पिशुनानां प्रवेशं तद्यत्नाद् गोपायितुं तव । आगन्तुं युज्यते तत्र का पा स्वाम्युपासने ॥४०१॥ भ्रातेति यदि निर्भीको नागास्तदपि नोचितम् । आज्ञासारा न गृह्यन्ते ज्ञातेयेन महीभुजः ॥४०२।। अयस्कान्तैरिवायांसि देवदानवमानवाः । कृष्टास्तेजोभिरधुना ह्येकं भरतमन्वगुः ॥४०३॥ यमर्दासनदानेन वासवोऽपि सखीयति । सेवामात्रेण तं हन्तानुकूलयसि किं नहि ॥४०४॥ एवं विमृशतस्तस्य सेनानीर्जगदे बदः । स्वामिस्तब(स्तव ब)लस्याग्रे त्रैलोक्यं च तृणायते ॥४०७॥" क्वचिदशुद्धा इमे श्लोका आदौ कथञ्चिद् रचयित्वा पश्चाद् ग्रन्थकारेणैव निराकृता इति सम्भाव्यते ।। १ गोपयितुं-मु.॥ २ एकादश प्रलोका: त्रिषष्टि० १। ५ । १११-१२१ ॥ Jain Education Inter For Private & Personal Use Only M ainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy