SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ॥ ८ ॥ मरुकूपे ततो यातः कुशपूलं स रज्जुभिः। बद्धा चिक्षेप पयसे किमातः कुरुते न हि ॥३८८।। दूराम्बुत्वेन कूपस्य मध्येऽपि गलिताम्बुकम् । निश्चोत्य पूलं द्रमकः स्नेहपोतमिवापिबत् ॥३८९॥ न च्छिन्ना यार्णवाद्यैस्तृट् छेद्या पूलाम्भसा न सा। तद्वद्वः स्वःसुखाच्छिन्ना छेया राज्यश्रिया किमु ॥३९०॥ अमन्दानन्दनिःस्यन्दिनिर्वाणप्राप्तिकारणम् । वत्साः संयमराज्यं तद्युज्यते वो विवेकिनाम् ।।३९१॥ तत्कालोत्पन्नवैराग्यवेगा भगवदन्तिके । तेऽष्टानवतिरप्याशु प्रव्रज्यां जगृहुस्ततः ॥३९२॥ अहो धैर्यमहो सत्वमहो वैराग्यधीरिति । चिन्तयन्तस्तत्स्वरूपं दूता राज्ञे व्यजिज्ञपन् ॥३९३।। १ स्नेहप्रोत-खं. मु.॥ २ इतः परं शां. खं. प्रत्योरविद्यमाना नध प्रलोका मु. मध्ये इत्थमुपलभ्यन्ते" तत् श्रुत्वा भरतस्तेषां राज्यानि जगृहे स्वयम् । लाभाद्विवर्धितो लोभी राजधर्मो ह्यसौ सदा ॥३९९।। अथ विज्ञपयामास सेनानीर्भरतेश्वरम् । न चक्र चक्रशालायां विशत्यद्यापि न: प्रभो ॥४००। स्वामिन् दिग्विजये कश्चिदाज्ञाबाह्यो नृपः क्वचित् । धिवर्तते डोल इव घरट्टे भ्रमति प्रभो ॥४०॥ आ ज्ञातं भरतोऽवादील्लोकोत्तरपराक्रमः । अस्मबन्धुर्महाबाहुरेको बाहुबलिबली । ४०२।। एकतो गरुडश्चैकोऽन्यतोऽप्यहिकुलानि च । मृगारि[]को यत् कुर्यान्मृगकुला [ नि तन्नहि ? ]...||४०३॥ एकतः संहताः सर्वे देवदानवमानवाः । तथान्यतो बाहुबलि: प्रतिमल्लो न विद्यते ॥४०॥ एकतश्चक्रशालायां चक्रं न प्रविशत्यदः । नेच्छत्याज्ञामन्यतो [मितो] बाहुः संकटे पतितोऽस्म्यहम् ॥१०॥ किंवा बाहुबलि: सोऽयमाज्ञां कस्यापि मन्यते । सहते नाम पर्याणं केसरी किं कदाचन ॥४०६॥ Jain Education Inter For Private & Personal Use Only w ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy