SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ भ्रातूननागतान् ज्ञात्वा तस्मिन्नपि महोत्सवे । तेषामेकैकशो दूतान् प्राहिणोद् भरतेश्वरः ॥३७१॥ राज्यानि चेत् समीहध्वे सेवध्वे भरतं ततः । दूतरित्युदिताः सर्वेऽप्यालोच्यैवाऽवदन्निदम् ॥३७२।। विभज्य राज्यं दत्तं नस्तातेन भरतस्य च । संसेव्यमानो भरतोऽधिकं किं नः करिष्यति ॥३७३॥ समापतन्तं किं काले कालं प्रस्खलयिष्यति । किं जराराक्षसी देहग्राहिणी निग्रहीष्यति । ३७४॥ बाधाविधायिनः किं वा व्याधिव्याधान हनिष्यति । यथोत्तरं बर्द्धमानां तृष्णां वा दलयिष्यति ॥३७५॥ 5 १ इत: परं पञ्च श्लोका मु. मध्ये एवं सन्तिकुर्षता स्वकुटुम्बस्य सारां च ददृशे कृशाम् । सुन्दरी चास्थिभूतां च चुकोप भरतेश्वरः ।। ३७१ ।। ऊचे प्राहरिकान् किं रे मद्गेहे नास्ति भोजनम् । यदेवमीदृशी जाता अस्थिचर्ममयी कथम् ।। ३७२ ।। स्वामिन् विजययात्राभूत्तव तावत्प्रभृत्यपि । आचामाम्लान्यविश्रान्तमकार्षीत् सुन्दरी यतः ॥ ३७३ ।। अत्रान्तरे च भगवान् विहृत्य वसुधातले । भगवान् समवासार्षीदष्टापदगिरौ ततः ॥ ३७४ ॥ श्रुत्वा च भरताधीशः स्वामिवन्दनहेतवे । आगात् तद्देशनां श्रुत्वा व्रतं जग्राह सुन्दरी ॥३७५॥" इदं तु ध्येयम्-भरतस्य चक्रवर्तित्वाभिषेकानन्तरं त्रिषष्टिशलाकापुरुषचरिते [१।४। ७३०-७९७ ] महता विस्तरेणेदं सुन्दरीदीक्षावर्णनमस्ति, तथापि अत्र भरतन्त्रक्रिचरितस्य संक्षिप्तत्वादेतेषां पञ्चानां श्लोकानां क्वचित् किञ्चिदशुद्धत्वाच इमे श्लोका अतिरिक्ता इव भान्ति । आदौ कथञ्चिद् रचयित्वा पश्चाद् ग्रन्थकृतैयानास्ता इत्यपि सम्भाव्यते ॥ २ श्लोकाष्टकं त्रिषष्टि० १।४।८००-८०७।। ॥ ७९ ॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy