SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं যীলামু ॥ ७८ ॥ प्रथमः प्रकाशः श्लोकः १० ॥ ७८ ॥ कृतमालकवत्तत्र नाट्यमालमसाधयत् । अष्टमेन नृपस्तद्वत्तस्य चाष्टाहिका व्यधात् ॥३६०॥ सुषेणोद्घाटितद्वारकपाटां तां गुहां नृपः । प्राविशदक्षिणं तस्या द्वारमुज्जघटे स्वयम् ॥३६१॥ निर्ययौ तद्गुहामध्यात् केसरीव नरेश्वरः । स्कन्धावारं च निदधे गाङ्गे रोधसि पश्चिमे ॥३६२।। नवापि निधयो नागकुमाराधिष्ठितास्तदा । गङ्गाकूलमनुप्राप्तं राजानमुपतस्थिरे ॥३६३॥ इत्यूचुस्ते वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग भवद्भाग्यवंशीकृताः ॥३६४॥ यथाकाममविश्रान्तमुपभुक्ष्व प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ न तु क्षीयामहे वयम् ॥३६५॥ सहस्रनवभिर्यक्षैः किङ्करैरिव तावकैः । आपूर्यमाणाः सततं चक्राष्टकप्रतिष्ठिताः ॥३६६॥ द्वादशयोजनायामा नवयोजनविस्तृताः। भूमध्ये सञ्चरिष्यामो देव त्वत्पारिपाचिकाः ॥३६७॥ [युग्मम् ।] सेनापतिः सुषेणोऽपि गङ्गादक्षिणनिष्कुटम् । महावनं महावायुरिवोन्मूल्य समाययौ ॥३६८॥ समासहस्रैः षष्ट्यैवं जित्वा पट्खण्डमेदिनीम् । चक्रमार्गानुगोऽयोध्यां जगाम जगतीपतिः ॥३६९॥ ततो द्वादशभिव(रागत्यागत्य पार्थिवैः । प्रचक्रे चक्रवर्त्तित्वाभिषेको भरतेशितुः ॥३७०॥ १०टाइनिकां-मु. ॥ २ त्रिषष्टि० १ । । । ५६७ ॥ ३ केशरीव-मु.॥ ४ विदधे-खं. ॥ ५ प्रलोकद्वयं त्रिषष्टि० १। ४। ५८३-५८४ ॥ Jain Education Internet For Private & Personal Use Only O w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy