SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ततो राज्ञा विसृष्टौ तौ राज्यान्यारोप्य सूनुषु । विरक्तावृषभेशांहिमूले जगृहतुर्बतम् ॥३४८॥ ततोऽपि चलितवतश्चक्ररत्नस्य पृष्ठतः । गच्छन्नासादयामास राजा मन्दाकिनीतटम् ॥३४९।। उत्तरं निष्कुटं गाङ्गं सुषेणोऽप्यभिषेणयन् । तरसा साधयामास किमसाध्यं महात्मनाम् ॥३५०॥ राजाप्यष्टमभक्तेन गङ्गादेवीमसाधयत् । आनर्च भरतं सापि देवताहरुपायनैः ॥३५१॥ ततो गङ्गानदीकूले कमलामोदमालिनि । वासागार इवोवास वसुमत्येकवासवः ॥३५२॥ भरतं रूपलावण्यकिङ्करीकृतमन्मथम् । तत्रावलोक्य गङ्गापि प्राप क्षोभमयों दशाम् ॥३५३॥ विराजमाना सर्वाङ्ग मुक्तामयविभूषणैः । वदनेन्दोरनुगतैस्तारैस्तारागणैरिव ॥३५४॥ वस्त्राणि कदलीगर्भत्वक्सगर्भाणि बिभ्रती। स्वप्रवाहपयांसीव तद्पपरिणामतः ॥३५५।। रोमाञ्चकञ्चुकोदश्चत्कुचस्फुटितकञ्चुका । सद्यस्तरङ्गितापाङ्गा गङ्गा भरतमभ्यगात् ॥३५६॥ [त्रिभिर्विशेषकम् ] प्रेमगद्गदवादिन्या गाढमभ्यर्थ्य पार्थिवः । रिरंसमानया निन्ये तया निजनिकेतनम् ॥३५७॥ भुआनो विविधान् भोगांस्तया सह महीपतिः । एकाहमिव वर्षाणां सहस्रं सोऽत्यवाहयत् ॥३५८।। गुहां खण्डप्रपाताख्यामखण्डितपराक्रमः । ततः स्थानान्नृपः प्राप करटीव वनाद्वनम् ॥३५९।। १ सार्धश्लोकः त्रिषष्टि०१।४। ५३६-५३७ ॥ २ महौजसां-खं० ॥ ३ श्लोकषट्कं त्रिषष्टि०१।४।५४२-५४७ ॥ ४ त्रिषष्टि०१।४। ५४९ ।। Jain Education Internat For Private & Personal use only nelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy