SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाश श्लोकः १० ॥ ७४॥ ॥ ७४॥ दीगैरेकोनपञ्चाशन्मण्डलैः काकिणीकृतैः। मार्तण्डमण्डलोयोतैस्तद्वाहिन्योऽवहन् सुखम् ॥३१२ ॥ भूपोऽथापश्यदुन्मग्ननिमग्ने निम्नगे ययोः । एकत्रोन्मजति ग्रावाऽन्यस्यां मजत्यलाब्वपि ॥३१३॥ अतिदुस्तरताभाजोरपि सारणिलीलया । तयोर्नद्योरनवद्यां पद्यां व्यधित वर्द्धकिः ॥३१॥ पद्यया ते समुत्तीर्य तद्गुहाकुहरान्नृपः । निरगच्छन्महामेघमण्डलादिव भास्करः ॥३१५।। भरतो भरतक्षेत्रोत्तरखण्डं प्रविष्टवान् । अयुध्यत ततो म्लेच्छनिवैरिव वासवः ॥३१६॥ जिता राज्ञा महेच्छेन म्लेच्छाः प्रतिजयेच्छवः । उपासाश्चक्रिरे मेघमुखान् स्वकुलदेवताः ॥३१॥ मुसलाकारधाराभिरारादासारदारुणम् । ते प्रावर्तन्त संवर्त इव विष्वक् प्रवर्षितुम् ॥३१८॥ चर्मरत्नमधस्तेने राज्ञा द्वादशयोजनीम् । तद्वदूर्ध्व छत्ररत्नं मध्ये च निदधे चमः ॥३१९॥ मणिरत्नमुरुध्वान्तध्वंसाय वसुधाधिपः । पूर्वाचल इवादित्यं छत्रदण्डे न्ययोजयत् ॥३२०॥ तरदण्ड इवाराजत् तद्रत्नद्वयसम्पुटम् । ततस्तदादि लोकेऽभूद् ब्रह्माण्डमिति कल्पना ॥३२१॥ पूर्वाणे बापितान् शालीनपराणे च पवित्रमान् । प्रत्यावासं गृहपतिर्भोजनार्थमपूरयत् ॥३२२॥ वर्ष वर्ष च निविण्णैरूचे मेघकुमारकैः। किराताश्चक्रवत्र्येप न साध्योऽस्मादृशामिति ॥३२३॥ ९ -ख. ग. च. महेशेन-मु.॥ २"तरदण्डमिवाराजत्" त्रिषष्टिः १।४। ४३२ । भण्डशब्दः " पुंक्लीबलिङ्गः" इति अभिधानचिन्तामणि स्वोपज्ञवृत्तौ ॥ ३८ ॥ ३ शामपि-मु.॥ Jain Education Inter! For Private & Personal Use Only djainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy