________________
स्वोपज्ञवृत्तिविभूषितं योगशाखम्
प्रथमः प्रकाश: श्लोकः १० ॥ ७२ ॥
॥ ७२ ।।
विज्ञायावधिना सोऽपि दिव्यैस्तैस्तैरुपायनैः । उपतस्थे महीपालं सेवां च प्रत्यपद्यत ॥२८॥ तं विसृज्य नृपश्चक्रेऽष्टमभक्तान्तपारणम् । अष्टाहिकोत्सवं तस्य विदधे च यथाविधि ॥२८९॥ गुहां तमिस्रामभितस्तमिस्रारिरिव त्विषा । जगाम तददूरे च स्कन्धावारं न्यधान्नृपः ॥२९०॥ कृतमालामरं तत्र स उद्दिश्याष्टमं व्यधात् । सोऽपि ज्ञात्वासनकम्पादान!पेत्य भूपतिम् ॥२९१॥ विसृज्य तमपि मापः कृत्वा चाष्टमपारणम् । विदधेऽष्टाहिकां तस्य महोत्सवपुरःसरम् ॥२९२॥ सुषेणो भरतादेशात् सिन्धुमुत्तीर्य चर्मणा । तरसा साधयामास दक्षिणं सिन्धुनिष्कुटम् ।।२९३॥ करं तत्रत्यम्लेच्छानामादाय स्वेच्छयाथ सः । उत्तीर्य चर्मणा सिन्धुमाययौ भरतेश्वरम् ॥२९॥ वैताढ्ये तमिस्रां वज्रकपाटपिहितां गुहाम् । उद्घाटयितुमादिक्षत् सुषेणमृषभात्मजः ॥२९५॥ सुषेणोऽपि प्रभोराज्ञां शेषावन् मूर्ध्नि धारयन् । प्रदेशेऽगात् तमिस्राया गुहाया अदवीयसि ॥२९६॥ तदधिष्ठातृदेवं च कृतमालमनुस्मरन् । तस्थौ पौषधशालायामष्टमेन विशुद्धधीः ॥२९७।। स्नात्वा चाष्टमभक्तान्ते बाह्याभ्यन्तरशौचभृत् । पर्यधाच्छुचिवस्त्राणि विविधाभरणानि च ॥२९८॥ १ अष्टाह्निको -मु.॥ २ समुद्दिश्या-खं. ॥ ३ ०ष्टाह्निकां-पु.॥ ४ तत्रत्यं-खं.। ततस्त्य-शां. मु.॥ ५ क्षत् ततस्तामृषभात्मजः-शां० । क्षत् ततस्तमृषभात्मजः-ख. च.॥
Jain Education Inter
For-Private &Personal use Only
Mjainelibrary.org