SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ ७० ॥ Jain Education Interi एला- लवङ्ग-लवली - ककोलबद्दले तटे । सैन्यान्यावासयामास स दोर्वीर्य पुरन्दरः || २६७॥ तेजसा स दुरालोको द्वितीय इव भास्करः । महावाहं महाबाहुरारुरोह महारथम् || २६८ ॥ तरङ्गैरिव रङ्गद्भिस्ततस्तुङ्गैस्तुरङ्गमैः । रथनाभ्युदयं तोयं लल स महोदधेः ॥ २६९ ॥ वरदामाभिमुखं च सज्जीकृतशरासनः । धनुर्वेदोङ्कारमिव ज्यानिर्घोषं ततान सः ॥ २७० ॥ सौवर्णकर्णताडङ्कपद्मना तुला स्पृशम् । काञ्चनं सन्दधे वाणमाकर्णाकृष्टकार्मुके ॥२७१॥ वरदामाख्यतीर्थशमभि श्रीभरतस्ततः । मुमोच नमुचिद्वेषिस्थामा नामाङ्कितं शरम् ॥ २७२ ॥ वरदामपतिर्वाणं प्रेक्ष्य च प्रतिगृह्य च । भरतं प्रत्युपायज्ञ उपायनमुपानयत् || २७३॥ ऊचे च भरताधीश धन्योऽस्मि यदिहागमः । नाथेन भवता नाथ सनाथोऽहमतः परम् || २७४ || ततस्तमात्मसात् कृत्वा कृत्यविद् भरतेश्वरः । प्रति प्रतीचीमचलच्चलयनचलां बलैः ॥२७५॥ अपरार्णमासाद्य प्रभासाभिमुखं शरम् । जाज्वल्यमानं भरतस्तडिद्दण्डमित्राक्षिपत् ॥२७६॥ दण्डं प्रयच्छ कुर्वाज्ञां जिजीविषसि चेत् सुखम् । इत्यक्षराणि तद्बाणे प्रभासपतिरैक्षत || २७७|| प्राज्यानि प्रगुणीकृत्य प्राभृतान्यद्भुतानि सः । चचाल शरमादाय प्रसादयितुमार्षभिम् || २७८ || १ त्रिषष्टि० १ । ४ । १५७ ॥ २ भरताधीशं - मु. ॥ ३ नचलान - खं. ॥ ४ " भरतेश्वरम्" - खंटि० ॥ For Private & Personal Use Only प्रथम: प्रकाशः लोक: १० ॥ ७० ॥ 5 10 ainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy