SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ मागधतीर्थकुमारं देवं मनसिकृत्य च । प्रपेदेऽष्टमभक्तं सोऽर्थसिद्धेरिमादिमम् ॥२५७।। यादांसि त्रासयन्नाशु रथेनाऽसह्यरंहसा । जलधि मन्दरेणेव जगाहे स महाभुजः ॥२५८॥ रथनाभ्युदये तोये स्थित्वा द्वादशयोजनीम् । बाण दतमिव प्रेषीनामाङकं मागधाय सः॥२५९॥ अथ मागधतीर्थस्य पतिर्निपतिते शरे। चुकोप विकटाटोपभृकुटीभङ्गभीषणम् ॥२६०॥ शरे मन्त्राक्षराणीव तस्य नामाक्षराण्यसौ। दृष्ट्वा नागकुमारोऽभूनितान्तं शान्तमानसः ॥२६१॥ - प्रथमश्चक्रवर्येष उत्पन्न इति चिन्तयन् । उपतस्थे स भरतं विजयो मूर्तिमानिव ॥२६२॥ नरचूडामणेरग्रे निजं चूडामणि फणी। चिराजितं तेज इवोपानयत्तच्छरं च सः ॥२६३॥ तवाहं पूर्वदिकपालः किङ्करः करवाणि किम् । इति विज्ञपयन राज्ञा सोऽनुजज्ञे महौजसा ॥२६॥ जयस्तम्भमिवारोप्य तत्र तं मागधाधिपम् । पूर्वनीरनिधेस्तीरान्नरदेवो न्यवर्त्तत ॥२६५॥ उर्वीमनुर्वी कुर्वाणश्वलयनचलानपि । चतुरङ्गबलेनाथ प्रपेदे दक्षिणोदधिम् ।।२६६॥ १ त्रिषष्टि०१।४। ८४ । शां. खं. प्रत्योरयं संपूर्ण: प्रलोको नास्ति । इदमत्र ध्येयम्-अग्रे वरदामतीर्थपतिप्रमासतीर्थपत्योर्विजयप्रसङ्गेऽष्टमतपोधिधानोल्लेखो नास्ति, अतोऽत्र मागधतीर्थपतिविजयप्रसने केवले तवर्णनमतिरिक्तमिव मत्वा संक्षेपधिया वा ग्रन्थकृतय प्रलोकोऽयमादौ विरचय्य पश्चादनादृतः स्यादित्यपि सम्भाव्यते ॥ २ भ्रकुटी-खं.॥ Jain Education Inten For Private & Personal Use Only jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy