________________
स्वोपज्ञवृत्तिविभूषितं
योगशास्त्रम्
॥ ६८ ॥
Jain Education Inter
इति स्तुत्वा जगन्नाथं महीनाथशिरोमणिः । देशनावाकूसुधां पूर्णकर्णाञ्जलिपुटं पप ॥ २४६ ॥ तदा ऋषभसेनादीन् भगवानृषभध्वजः । दीक्षयामास चतुरोऽशीतिं च गणभृद्वरान् ॥ २४७॥ अदीक्षयत्ततो ब्राह्मीं भरतस्य च नन्दनान् । शतानि पञ्च नप्तॄंश्च शतानि सप्त नाभिभूः || २४८॥ साधवः पुण्डरीकायाः साध्यो ब्राहृम्यादयोऽभवन् । श्रेयांसाद्याः श्रावकाच श्राविका ः सुन्दरीमुखाः ॥ २४९ ॥ एवं चतुर्विधः सङ्घः स्थापितः स्वामिना तदा । ततः प्रभृति सङ्घस्य तथैवेयं व्यवस्थितिः || २५० || स्वाम्यथ भव्यबोधायान्यतोऽगात् सपरिच्छदः । तं नत्वा भरताधीशोऽप्ययोध्यां नगरीं ययौ ॥ २५९ ॥ तत्र नाभ्यङ्गभूवंशरत्नाकर निशाकरः । यथाविधि जुगोपोन्वीं' न्यायो विग्रहवानिव ॥ २५२ ||
४
चतुःषष्टिः सहस्राणि बभ्रुवस्तस्य वल्लभाः । अनुचर्यः श्रियो यासां जज्ञिरे रूपसम्पदा || २५३ || तस्मिन्नर्द्धासनासीने वासवस्य दिवौकसः । द्वयोर्भेदमजानन्तः पेतुः प्रणतिसंशये ॥२५४॥ प्रारब्धदिग्जयः पूर्वं पूर्वस्यां भानुमानिव । सोऽगाजितान्यतेजोभिस्तेजोभिर्द्योतयन् जगत् || २५५|| उत्क्षिप्तार्घ मित्रोद्वीचिहस्त विन्यस्त विद्रुमैः । गङ्गासम्भेदसुभगं स प्रापत् पूर्वसागरम् ||२५६||
१ वृषभ - मु. ॥ २ चतुरशीतिं गणधरान् स्वयम् ॥ - मु. खं. ॥ ३ त्रिषष्टि० १ । ३ । ६५५ ॥ ४ पतस्थाने खं प्रतावीदृशः श्लोकः
"चतुःषष्टिं सहस्रान् स पुत्री राज्ञामुपायत । अनुचर्यः श्रियो यासां नवोढानां समागमन् || २५६ || "
For Private & Personal Use Only
प्रथम : प्रकाश:
श्लोक: १०
11 24 11
5
10
jainelibrary.org