________________
॥ ६७ ॥
एतस्यामवसपिण्यां सिद्धोऽसौ प्रथमस्ततः । क्षीराब्धौ तद्वपुः क्षिप्त्वा चक्रे मोक्षोत्सवः सुरैः ॥२३३॥ ततो विज्ञाततन्मोक्षो हर्ष-शुग्भ्यां समं नृपः । अभ्रच्छाया-ऽर्कतापाभ्यां शरत्काल इवानशे ॥२३४॥ सन्त्यज्य राज्यचिह्नानि पदातिः सपरिच्छदः। ततः समवसरणं प्रविवेश विशाम्पतिः॥२३५॥ चतुभिर्देवनिकायैः स्वामी परिवृतस्तदा। ददृशे भरतेशेन दृकचकोरनिशाकरः ॥२३६॥ त्रिश्च प्रदक्षिणीकृत्य भगवन्तं प्रणम्य च। मूर्ध्नि बद्धाअलिः स्तोतुमिति चक्री प्रचक्रमे ॥२३७॥ जयाखिलजगन्नाथ जय विश्वाभयप्रद । जय प्रथमतीर्थेश जय संसारतारण ॥२३८॥ अद्यावसर्पिणीलोकपद्माकरदिवाकर। त्वयि दृष्टे प्रभातं मे प्रनष्टतमसोऽभवत् ॥२३९॥ भव्यजीवमनोवारिनिर्मलीकारकर्मणि । वाणी जयति ते नाथ कतकक्षोदसोदरा ॥२४०॥ तेषां दूरे न लोकाग्रं कारुण्यक्षीरसागर । समारोहन्ति ये नाथ त्वच्छासनमहारथम् ॥२४१॥ लोकाग्रतोऽपि संसारमग्रिमं देव मन्महे । निष्कारणजगबन्धुर्यत्र साक्षात्चमीक्ष्यसे ॥२४२॥ त्वदर्शनमहानन्दस्यन्दनिष्पन्दलोचनैः । स्वामिन् मोक्षसुखास्वादः संसारेऽप्यनुभूयते ॥२४३॥ रागद्वेषकषायाध रुद्धं जगदरातिभिः । इदमुद्वेष्ट्यते नाथ त्वयेवाभयसत्रिणा ॥२४४।। स्वयं ज्ञापयसे तचं मार्ग दर्शयसि स्वयम् । स्वयं च त्रायसे विश्वं त्वत्तो नाथामि नाथ किम् ॥२४५॥ १ श्लोकाष्टकं तुल्यप्रायं त्रिषष्टिः १।३। ५३०-५३८ ॥ श्लोकचतुष्टयं त्रिषष्टि० १।३ । ५३९-५४२ ॥
Jain Education Intel
For Private & Personal Use Only
P
w.jainelibrary.org