SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रतिध्वानैश्चतस्रोऽपि दिशो मुखरयन् भृशम् । अम्भोद इव गम्भीरो दिवि दध्वान दुन्दुभिः ॥२०९॥ अधोवृन्ताः सुमनसो विष्वग्ववृषिरे सुरैः। शान्तीभूते जने त्यक्तान्यस्त्राणीव मनोभुवा ॥२१०॥ पश्चत्रिंशदतिशयान्वितया भगवान् गिरा । त्रैलोक्यानुग्रहायाथ प्रारेभे धर्मदेशनाम् ॥२११॥ भगवत्केवलज्ञानोत्सवं चारा अचीकथन् । भरतस्य तदा चक्ररत्नमप्युदपद्यत ॥२१२।। उत्पन्न केवलस्तात इतश्चक्रमितोऽभ्यगात् । आदौ करोमि कस्या मिति दध्यौ क्षणं नृपः ॥२१३॥ क्व विश्वाभयदस्तातः क्व चक्रं प्राणिघातकम् । विमृश्येति स्वामिपूजाहेतोः स्वानादिदेश सः ॥२१४॥ सूनोः परीपहोदन्तदुःखाश्रूत्पन्नदृग्रुजम् । मरुदेवामथोपेत्य नत्वा चासौ व्यजिज्ञपत् ॥२१५।। आदिशः सर्वदापीदं यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः सहते वारिविद्रवम् ॥२१६॥ हिमरी हिमसम्पातपरिक्लेशवशां दशाम् । अरण्ये मालतीस्तम्ब इव याति निरन्तरम् ।।२१७॥ उष्ण वुष्णकिरणकिरणरतिदारुणैः । सन्तापं चानुभवति स्तम्बेरम इवाधिकम् ॥२१८॥ तदेवं सर्वकालेपु वनवासी निराश्रयः। पृथग्जन इवैकाकी वत्सो मे दुःखभाजनम् ॥२१९॥ त्रैलोक्यस्वामिताभाजः स्वसनोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्त्वारोहयामास तां गजे ॥२२०॥ १ श्लोकद्वयं त्रिषष्टिः १ । ३ । ५१४-५१५॥ २ श्लोकचतुष्टयं त्रिषष्टि० १ । ३ । ४९९-५०२ ॥ ३ श्लोकपञ्चकं त्रिषष्टि०१।३। ५१८-१२२ ॥ १७ Jain Education Inter For Private & Personal Use Only P w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy