SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ ६४ ॥ Jain Education Inter माणिक्यकपिशीर्षाणि मुग्धामरवधूजनैः । आलोक्यन्त चिरं हर्षाद्रत्नताडङ्कशङ्कया ॥ १९८॥ प्रतिवप्रं च चत्वारि गोपुराणि बभासिरे । चतुर्विधस्य धर्मस्य क्रीडावातायना इव ॥ १९९ ॥ चक्रे समवसरणान्तरेऽशोकतरुः सुरैः । कोशत्रयोदयो रत्नत्रयोदयमिवोद्दिशन् ॥२००॥ तस्याः पूर्वदिग्भागे रत्नसिंहासनं सुराः । सपादपीठं विदधुः सारं स्वर्गश्रियामिव || २०१ || प्रविश्य पूर्वद्वारेण नत्वा तीर्थं तमच्छिदे | स्वामी सिंहासनं भेजे पूर्वांचलमिवार्यमा ॥ २०२ ॥ रत्नसिंहासनस्थानि दिवन्यास्वपि तत्क्षणम् । भगवत्प्रतिविम्बानि त्रीणि देवा विचक्रिरे ॥ २०३॥ वराकीकृतर| केन्दुमण्डलं परमेशितुः । त्रैलोक्यस्वामिताचिह्नमिव च्छत्रत्रयं बभौ ॥ २०४॥ भगवानेक एवायं स्वामीत्यूर्ध्वकृतो भुजः । इन्द्रेणेव प्रभोर रेजे रत्नमयो ध्वजः || २०५॥ चकाशे केवलज्ञानचक्रवर्त्तित्वसूचकम् । अत्यद्भुतप्रभाचक्रं धर्मचक्रं प्रभोः पुरः || २०६ || रेजुर्जाह्नवीवीचीसोदरे चारुचामरे | हंसा विवानुधावन्तौ स्वामिनो मुखपङ्कजम् ||२०७|| आविर्बभूवानुवपुस्तदा भामण्डलं विभोः । खद्योतपोतवद् यस्य पुरो मार्त्तण्डमण्डलम् ॥२०८॥ २ षष्टि० १ । ३ । ४५१ ।। ३ सार्धः श्लोकः त्रिषष्टि० १ । ३ । ४६१-४६२ ।। ६ वाभिधावन्तौ खं. ॥ ५ त्रिषष्टि० १ । ३ । ४५६ ॥ १ त्रिषष्टि० १ । ३ । ४४० ॥ ४ त्रिषष्टि० १ । ३ । ४६७ ॥ For Private & Personal Use Only प्रथम: प्रकाश: श्लोक : १० ॥ ६४ ॥ 5 10 jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy