SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥ ३॥ तत्पूर्वोत्तरदिग्भागे कानने शकटानने । वटस्याधोऽष्टमभक्तेनाऽस्थात् प्रतिमया प्रभुः ॥१८॥ आरुह्य क्षपकश्रेणिमपूर्वकरणक्रमात् । शुक्लध्यानान्तरं शुद्धमध्यासीदज्जगत्पतिः ॥१८७॥ ततश्च घातिकर्माणि व्यलीयन्त घना इव । स्वामिनः केवलज्ञानरविरा विर्वभूव च ॥१८८॥ विमानान्यतिसम्मर्दाद् घट्टयन्तः परस्परम् । एयुरिन्द्राश्चतुःषष्टिः समं देवगणैस्तदा ॥१८९॥ त्रैलोक्यभर्तुः समवसरणस्थानभूतलम् । अमृजन् वायुकुमाराः स्वयं मार्जितमानिनः ॥१९॥ गन्धाम्बुवृष्टिभिर्मेघकुमाराः सिषिचुः क्षितिम् । सुगन्धिबाष्पैः सोरिक्षप्तधूपावैष्यतः प्रभोः ॥१९१।। पुष्पोपहारमृतवो जानुदघ्नं व्यधुर्भुवि । अप्येष्यत्पूज्यसंसर्गः पूजायै खलु जायते ॥१९२।। स्निग्धधूमशिखास्तोमवासितव्योममण्डलाः । चक्रुधूपघटीस्तत्र तत्र वह्निकुमारकाः ॥१९३॥ इन्द्रचापशतालीढमिव नानामणित्विषा। ततः समवसरणं चक्रे शक्रादिभिः सुरैः ॥१९४॥ रजतस्वर्णमाणिक्यवप्रास्तत्र त्रयो बभुः। भुवनाधिपतिज्योतिवैमानिकसुरैः कृताः ॥१९५।। असौ स्वर्गमसौ मोक्षं गच्छत्यध्वेति देहिनाम् । शंसन्त्य इव वल्गन्त्यः पताकास्तेषु रेजिरे ॥१९६।। विद्याधर्यो रत्नमय्यो वोपरि चकाशिरे। कृतप्रवेशनिष्कासा विमानाशङ्कया सुरैः ॥१९७॥ १ ध्यासीदत् जग-शां. । 'ध्यासीच्च जग -मु.।'ध्यासीस्त्रिजग -खं. ॥२ ईयु-खं. ॥ ३ सार्धश्लोक: त्रिषष्टिः १।३।४२२-४२३॥ ४ निष्काशा-मु.॥ Jain Education in For Private & Personal Use Only ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy