SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाशा श्लोक: १० ॥ ६२ ॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः सुधीः । स्वामिने प्रासुकायातेक्षुरसं मुदितो ददौ ॥१७३॥ भूयानपि रसः पाणिपात्रे भगवतो ममौ । श्रेयांसस्य तु हृदये ममुर्नहि मुदस्तदा ॥१७४॥ स्त्यानो नु स्तम्भितो न्वासीद् व्योम्नि लग्नशिखो रसः । अअलौ स्वामिनोऽचिन्त्यप्रभावाः प्रभवः खलु ॥१७५।। ततो भगवता तेन रसेनाकारि पारणम् । सुरासुरनृणां नेत्रैः पुनस्तदर्शनामृतैः ॥१७६॥ कुर्वद्भिर्दुन्दुभिध्वानं देवैदिवि घनैरिव । वृष्टयो रत्नपुष्पाणां चक्रिरे वारिवृष्टिवत् ॥१७७।। अथ तक्षशिलां स्वामी ययौ बाहुबलेः पुरीम् । बाह्योद्याने प्रपेदे च प्रतिमामैकरात्रिकीम् ॥१७८॥ प्रभाते पावयिष्यामि स्वं लोकं स्वामिदर्शनात् । इतीच्छतो बाहुबलेः साभून्मासोपमा निशा ॥१७९॥ स प्रातः प्रययौ यावत् तावत् स्वाम्यन्यतोऽगमत् । तच्चास्वामिकमुद्यानं व्योमेवाचन्द्रमैक्षत ॥१८॥ मनोरथो विलीनो मे हृदि बीजमिवोषरे । हा धिक प्रमद्वरोऽस्मीति बह्वात्मानं निनिन्द सः ॥१८१॥ यत्रास्थातां प्रभोः पादौ रत्नस्तत्रापभिर्व्यधात् । धर्मचक्र सहस्रारं सहस्रांशुमिवापरम् ॥१८२॥ विविधाभिग्रहः स्वामी म्लेच्छदेशेष्वधर्मसु । विजहार यथार्येषु समभावा हि योगिनः ॥१८३।। तदा प्रभृत्यनार्याणामपि पापैककर्मणाम् । धर्मास्तिक्यधिया जज्ञे दृढानुष्ठानचेष्टितम् ॥१८४॥ एवं विहरमाणस्तु सहस्र शरदां गते । पुरं पुरिमतालाख्यमाजगाम जगद्गुरुः ॥१८५।। १ इत आरभ्य श्लोकत्रयं समानं त्रिषष्टिः १।३ । २९३-२९५ ॥ २ मेक-मु.॥ Jain Education Intern For Private & Personal Use Only ainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy