SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ॥६१ ॥ दशयोजनविस्तारदक्षिणश्रेणिमध्यगाः । तत्र विद्याबलाच्चक्रे नमिः पञ्चाशतं पुरीः ॥१६१॥ दशयोजनविस्तारोत्तरश्रेण्या न्यबीविशत् । विद्याधरपतिः पष्टिं पुराणि विनमिः पुनः ॥१६२॥ चक्राते चक्रवतित्वं चिरं विद्याधरेषु तौ। तादृशः स्वामिसेवायाः किं नाम स्यादरासदम् ॥१६३॥ वर्प मौनी निराहारो विहरन् भगवानपि । पुरं गजपुरं नाम प्रययौ पारणेच्छया ॥१६॥ तदा च सोमयशसः श्रेयांसः स्वममैक्षत । 'मेरुं श्याम सुधाकुम्भैः क्षालयित्वोज्ज्वलं व्यधाम् ॥१६५।। सुबुद्धिश्रेष्ठिनाऽप्यक्षि गोसहस्रं वेश्च्युतम् । श्रेयांसेनाऽऽहितं तत्र ततोऽसौ भासुरोऽभवत् ॥१६६॥ अदर्शि सोमयशसा राजैको बहुमिः परैः । रुद्धः समन्ताच्छ्यांससाहाय्याजयमीयिवान् ॥१६७॥ त्रयस्ते सदसि स्वग्नानन्योन्यस्य न्यबीविदन् । ते निर्णयमजानन्तः स्वं स्वं स्थानं पुनर्ययुः ॥१६८॥ प्रादुर्भावयितुमिव तदा स्वस्वप्ननिर्णयम् । श्रेयांसस्य ययौ वेश्म मिक्षार्थी भगवानपि ॥१६९॥ भगवन्तं समायान्तं शशाङ्कमिव सागरः। आलोक्य श्रेयसां पात्रं श्रेयांसः शिश्रिये मुदम् ॥१७०॥ ऊहापोहं वितन्वानः श्रेयांसः स्वामिदर्शनात् । अवाप जातिस्मरणं पूर्वनष्टनिधानवत् ॥१७॥ चक्रभृद् वज्रनाभोऽसौ प्राग्भवेऽस्याऽस्मि सारथिः। अनुप्रबजितश्चामुं तदेत्यादि विवेद सः ॥१७२।। १ -ख. ग. च. । चिरादू-मु.॥ २ व्यधात्-मु.॥ ३ इतः सार्ध प्रलोकत्रयं समानप्रायं त्रिषष्टि०१।३। २४६-२४९ ॥ ४ ततोऽर्कोऽप्यतिभासुरः॥ -खं. त्रिषष्टिः १।३। २४६ ॥ ५ राईको-त्रिषष्टिः ॥ 10 Jain Education Inter For Private & Personal use only ainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy