________________
क्षीरोदधौ सुधर्मेशः केशान् क्षिप्त्यान्युपेत्य च । रङ्गाचार्य इबारक्षत् तुमुलं मुष्टिसंज्ञया ॥१३७॥ सर्व सावा प्रत्याख्यामीति चारित्रमुचकैः । मोक्षाधनो स्थमिवाध्यारुरोह जगत्पतिः॥१३८॥ सर्वतः सर्वजन्तूनां मनोद्रव्याणि दर्शयत् । जज्ञे ज्ञानं प्रभोस्तुर्य' मनःपर्ययसंज्ञकम् ॥१३९।। राज्ञां सहस्राश्चत्वारोऽनुयान्तस्तं निजप्रभुम् । व्रतमाद दिरे भक्त्या कुलीनानां क्रमो ह्यसौ ॥१४०॥ ततः सर्वेषपीन्द्रेषु गतेषु स्वं स्वमालयम् । व्यवहरत् तैर्वृतः स्वामी यूथनाथ इव द्विपैः ॥१४॥ लोकर्भिक्षास्वरूपा भिक्षार्थ भ्रमतः प्रभोः । अढौकि कन्येभाश्वादि धिगार्जवमपि क्वचित् ॥१४२॥ न्याय्यामप्राप्नुवन् भिक्षां सहमानः परीषहान् । अदीनमानसः स्वामी मौनव्रतमुपाश्रितः ॥१४३॥ श्रमणानां सहस्रेस्तैश्चतुभिरपि नाभिभूः । क्षुधा मुचे को वा सत्त्ववान् भगवानिव ॥१४॥ वने मूलफलाहारा जज्ञिरे ते तु तापसाः। भवाटवीपथजुषो धिक् तान् मोक्षपथच्युतान् ॥१४५॥ अथ कच्छ-महाकच्छपुत्रावाज्ञागतौ क्वचित् । ईयतुर्नमि-विनमी स्वामिनं प्रतिमास्थितम् ॥१४६॥ प्रणम्य तौ विज्ञपयाम्बभूवतुरिति प्रभुम् । आवयो परः स्वामी स्वामिन् राज्यप्रदो भव ॥१४७॥ न किश्चिदूचे भगवांस्तदा तौ सेवकावपि । निर्ममा हि न लिप्यन्ते कस्याप्यहिकचिन्तया ॥१४८॥
१ त्रिषष्टि० १ । ३। ७२ ।। २ त्रिषष्टि० १ । ३ । ७४ ॥३-ख. ग. च.। ससत्त्वो भग'-मु.॥ ४ त्रिषष्टि० १ । ३ । १४४॥ ५ त्रिषष्टि०१।३। १३९ ॥
। 10
Jain Education Intel
For Private & Personal Use Only
w
ww.jainelibrary.org