SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पूर्वरङ्ग इवारब्धे पञ्चमोच्चारिभिः पिकैः। अदर्शयल्लतालास्यं मलयानिललासकः ॥११५॥ प्रतिशाखं विलग्नाभिः पुष्पोचयकुतूहलात् । स्त्रीभिस्तत्राभवन् वृक्षाः सञ्जातस्वीफला इव ॥११६॥ पुष्पवासगृहासीनः पुष्पाभरणभूषितः । पुष्पगेन्दुकहस्तोऽभाद् मधुर्मूर्त इव प्रभुः ॥११७॥ तत्र खेलायमानेषु निर्भरं भरतादिषु । दध्यो स्वामी किमीदृक्षा क्रीडा दोगुन्दुगेष्वपि ॥११८॥ जज्ञेऽथावधिना स्वामी स्वःसुखान्युत्तरोत्तरम् । अनुत्तरस्वर्गसुख भुक्तपूर्व स्वयं च तत् ॥११९॥ भूयोऽप्यचिन्तयदिदं विगलन्मोहबन्धनः । धिगेष विषयाक्रान्तो वेत्ति नात्महितं जनः ॥१२०॥ अहो संसारकूपेऽस्मिन् जीवाः कुर्वन्ति कर्मभिः । अरघट्टघटीन्यायेनैहिरेयाहिरां क्रियाम् ॥१२१॥ इत्यासीन्मनसा यावद्विभुभवपराङमखः । तावल्लौकान्तिका देवा एयः सारस्वतादयः ॥१२२॥ बद्धैरअलिभिमूनि कृतान्यमुकुटा इव । प्रणम्य ते व्यज्ञपयन् स्वामिस्तीथं प्रवर्त्तय ॥१२३॥ गतेषु तेषु भगवानुद्यानानन्दनाभिधात् । व्यावृत्य गत्वा नगरीमाजुहावावनीपतीन् ॥१२४॥ १ त्रिषष्टिः १।२। १००८॥ २ त्रिषष्टिः १।२।९८६॥ ३ त्रिषष्टिः १।२। १०१७ । तत्र दोलाय-क.॥ ४“चिन्तयामास" -खंटि, ॥५दोगुन्दगे-मु.॥ ६ इत: प्रभृति प्रलोकत्रयं समानप्रायं त्रिषष्टि०१।२।१०१८१०२० ।।७" मयूरव्यंसकेत्यादय:" [सिद्धहेम०३।१। ११६] अनेन सूत्रेण निपातः।" खटि. ॥ ८ तावल्लोका-मु.॥ ९"आजग्मुः" खंटि. ॥ Jain Education Inte For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy