________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
प्रथमः प्रकाशः श्लोक: १० ॥५६॥
नक्तमिन्दुदृषद्भित्तिमन्दिरस्यन्दिवारिभिः । प्रशान्तपांसवो रथ्याः क्रियन्ते तत्र सर्वतः ॥१०॥ वापीकूपसरोलक्षैः सुधासोदरवारिभिः । नागलोकं नवसुधाकुण्डं परिवभूव सा ॥१०५।। नगरी तामलकुर्वन्नरेन्द्रो वृषभध्वजः । अपत्यानि निजानीव प्रजाश्चिरमपालयत् ॥१६॥ तत उत्पादयामास लोकानुग्रहकाम्यया । एकैकशी विंशतिधा पञ्च शिल्पानि नाभिभूः ॥१०७॥ राज्यस्थितिनिमित्तं चाऽग्रहीद् गास्तुरगान् गजान् । सामाधुपायसागं च नीतिरीतिमदर्शयत् ॥१०८।। द्वासप्ततिकलाकाण्डं भरतं चाध्यजीगपत् । भरतोऽपि निजान भ्रातृस्तनयानितरानपि ॥१०९।। नाभेयो बाहुबलिनं भिद्यमानान्यनेकशः। लक्षगानि च हस्त्यश्वस्त्रीपुंसानामजिज्ञपत् ॥११०॥ अष्टादश लिपीाम्या अपसव्येन पाणिना । दर्शयामास सव्येन सुन्दर्या गणितं पुनः ॥१११॥ वर्णव्यवस्था रचयन् न्यायमार्ग प्रवर्तयन् । त्र्यशीतिं पूर्वलक्षाणि नाभिभूरत्यवाहयत् ।।११२।। प्रभुः स्मरकृतावासे मधुमासे समेयुपि । अगादन्येधुरुधाने परिवारानुरोधतः ॥११३॥ गुअद्भिः फुल्लमाकन्दमकरन्दोन्मदालिभिः । मधुलक्ष्मीबभूव स्वागतिकीव जगत्प्रभोः ॥११४॥ १ पांशवो-खं. मु.॥ २ एतत्स्थाने ॥ १०६॥–शां. । इतः परम् १०७ इत्यादिक्रमेण लोकाङ्काः शां. प्रतौ सन्ति ॥ ३ एतत्स्थाने ॥ ११० ॥ -खं.। इतः परम् १९१ इत्यादिक्रमेण श्लोकाङ्काः खं. प्रतौ सन्ति ॥ ४ "दक्षिणेन" -खंटि. ॥ ५ "वामेन" -खंटि. ॥ ६ ॥ १५ ॥' पर्यन्तं समानप्रायं त्रिषष्टि०१।२६ ९८४-१८८ ॥
Jain Education Inten
For Private & Personal Use Only
RAJainelibrary.org