________________
स्वोपज्ञवृत्तिविभूषित योगशास्त्रम्
प्रथमः प्रकाश: श्लोकः १०
आकण्यं वचनं भर्तस्ते सर्वे युग्मम्मिणः । तच्छिक्षया ययुः पत्रपुटैजलजिघृक्षया ॥८७॥ तदा चासनकम्पेनावधिज्ञानप्रयोगतः । विज्ञातभगवद्राज्यसमयः शक्र आययौ ॥८८॥ रत्नसिंहासनेऽध्यास्य वासवः परमेश्वरम् । साम्राज्येऽभिषिषेचालश्चक्रे च मुकुटादिभिः ।।८९।। इतश्चाम्भोजिनीपत्रपुटैरञ्जलिधारितैः । निजं मन इव स्वच्छमानिन्ये मिथुनर्जलम् ॥९०॥ उदयाद्रिमिवार्केण मुकुटेनोपशोभितम् । अत्यन्तविमलैर्वस्यॊमेव शरदम्बुदैः ।।११।। हंसैरिव शरत्कालं सञ्चरचारुचामरैः। कृताभिषेकं नाभेयं ददृशुस्तानि विस्मयात् ।।९२॥ [युग्मम् ] नैतद्युक्तं प्रभोमूनि क्षेप्तुमेवं विमर्शिभिः । विनीतैमिथुनैर्वारि निदधे पादपद्मयोः ॥९३॥ योजनान्यथ विस्तीर्णी नव द्वादश चायताम् । विनीताख्यां पुरी कर्तुं श्रीदमुक्त्वा हरिययौ ॥१४॥ सोऽपि रत्नमयों भूमेर्माणिक्यमुकुटोपमाम् । व्यधात् द्विषामयोध्येति तामयोध्यापराभिधाम् ।।९५।। तां च निर्माय निर्मायः पूरयामास यक्षराट् । अक्षय्यरत्न-बसन-धन-धान्यनिरन्तरम् ।।९६॥ ववेन्द्रनीलवैडूर्यहर्म्यकिर्मीररश्मिभिः । भित्ति विनापि खे तत्र चित्रकर्म विरच्यते ॥९७।। १ श्रीदं मुक्त्वा -शां. ॥ २ इतः प्रभृति १०५ पर्यन्तं समाना:श्लोकाः त्रिषष्टि०१।२।९१३-९२३ ॥ ३ इत: ९७ श्लोकात् परं यद्यपि"तत्रोच्चैः काश्चनैश्चैत्यै मरुशङ्गशिरांस्य भि । पत्रालम्बनलीलेष ध्वजव्याजादू बितन्यते ॥"
Jain Education Inte
For Private & Personal Use Only
G
w.jainelibrary.org