SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ वाद्यमानेषु तूर्येषु गीयमाने च मङ्गले । अवादयन्नगायंच प्रतिशब्दै दिगङ्गनाः ।।७७।। सुमङ्गला-सुनन्दाभ्यां कुमारीभ्यामकारयत् । वासवः परमेशस्य पाणिग्रहमहोत्सवम् । ७८।। ततः सुमङ्गलादेवी देवैः प्रकृतमङ्गला । अपत्ये भरतबाम्यौ युग्मरूपे अजीजनत् ॥७९॥ त्रैलोक्यजनितानन्दा सुनन्दा सुपुवे युगम् । सुबाहुं बाहुबलिनं सुन्दरीं चातिसुन्दरीम् ।।८०॥ पुनरेकोनपञ्चाशत् पुंयुगानि सुमङ्गला । अस्त बलिनो मूर्त्तान् द्वैरूप्येणेव मारुतान् ।।८१।। अन्येयुरन्याय इति पूत्कारोद्धतबाहुभिः । नाभिर्व्यज्ञपि सम्भूय सर्वैमिथुनकैरिदम् ।।८२॥ तिम्रो हकारमकारधिक्काराख्याः सुनीतयः । न गण्यन्तेऽधुना पुंभिः कुर्वद्भिरसमअसम् ।।८३॥ ततः कुलकरोऽप्यूचे त्रातास्मादसमअसात् । एष वो वृषभः स्वामी तद्वर्तध्वं तदाज्ञया ॥८४॥ तदा कुलकराज्ञातः कत्तु राज्यस्थिति स्फुटाम् । प्रभु नत्रयमयो मिथुनान्येवमन्वशात् ॥८५।। राजा भवति मर्यादाव्यतिक्रमनिरोधकः। तस्योचासनदानेनाऽभिषेकः क्रियते जलैः ॥८६॥ धातोर्ण्यन्तस्यात्र प्रयोगः । " अत्ति-री-ठली-ही-यिक्नू-क्ष्माय्यातां पुः [सि०४।२।२१] । य्वो: प्वयव्यञ्जने लुक् [सि०४ । ४ । १२१ ]। चेलार्थात् क्नोपे: [सि०५।४।५८] चेलार्थाद व्याप्यात् परात् वनोपयतेस्तुल्यकर्तृकार्थाद् घृष्टिमाने गम्ये धातो: सम्बन्धे णम् वा स्यात् । चेलक्नोपं वृष्टो मेघः ।"-सि. ल०॥ १ स्फुटं-खं. ॥ 10 Jain Education Inter For Private & Personal Use Only Lainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy