SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाश: श्लोकः १० ॥५२॥ अकाण्डमुद्गराघातेनेव तेनापमृत्युना । बभूवुर्मूच्छितानीव मिथुनान्यपराण्यपि ॥६८॥ तानि तामग्रतः कृत्वा नारी पुरुषवजिताम् । किंकर्तव्यविमूढानि श्रीनाभेरुपनिन्थिरे ॥६९॥ एषा वृषभनाथस्य धर्मपत्नी भवत्विति । प्रतिजग्राह तां नाभिर्नेत्रकैरवकौमुदीम् ॥७०॥ अन्यदा तु विभोरुद्यत्प्राग्भोगफलकर्मणः । आगादिन्द्रो विवाहार्थ वृन्दारकगणान्वितः ॥७१।। ततः स्वर्णमयस्तम्भभ्राजिष्णुमणिपुत्रिकम् । अनेकनिर्गमद्वारमकाधुर्मण्डपं सुराः ॥७२।। श्वेतदिव्यांशुकोल्लोचच्छलेन गगनस्थया । गङ्गयेवाश्रितः सोऽभूद् भूरिशोभादिदृक्षया ॥७३॥ तोरणानि चतुर्दिक्षु सन्तानतरुपल्लवैः । तत्राभूवन धनूंषीव सञ्जितानि मनोभुवा ॥४॥ चतस्रो रत्नकलशश्रेणयोऽभ्रंलिहायकाः । पर्यष्ठाप्यन्त देवीभिनिधानानि रतेरिव ॥७५॥ ववृधुर्मण्डपद्वारे चेलक्नोपं पयोमुचः । चक्रे मध्ये सुरीभिर्भूः पङ्किला यक्षकईमैः ॥७॥ १ समानः सार्धप्रलोकः त्रिषष्टिः ।।२। ७५५-७५६ ॥ २ रभ्युद्योग-क. छ.॥ ३ देवदेवीगणा-खं. ॥ ४ भृत् तस्य शोभा-खं. | " भृत् तत्कौतुकदिक्षया"-त्रिषष्टि०१।२।७८१ ।। ५ " "तोरणानि प्रतिदिशं..."त्रिषष्टिः।१।२। ७७५ ॥ ६ ख. ग. त्रिषष्टिः १।२ । ७८३। ० हाग्रगा: मु.॥ ७ पर्यस्था मु०। पर्यष्ठा - त्रिषष्टि०१। २। ७८३ । "स्था-सेनि-सेध-सिच-सञ्जां द्वित्वेऽपि" -सि०२।३। ४० ॥ ८ चेली तक्षेपं मु. । अत्र 'चेलक्नोपं शां. खं. पाठः, अयमेव च साधु: "क्नृयैङ् शब्दोन्दनयो:" [ हैमधा० ८०२] इति Jain Education Intel For Private & Personal Use Only w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy