SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाशः श्लोकः १० यवाः स्पष्टमशीभन्त स्वामिनोऽऽङ्गुष्ठपर्वसु । यशोवरतुरङ्गस्य पुष्टिवैशिष्ट्यहेतवः ॥४३॥ अगुलीमूर्धसु विभोः सर्वसम्पत्तिशंसिनः। दधुः प्रदक्षिणावर्ता दक्षिणावर्तशङ्खताम् ॥४४॥ कृच्छ्रादुद्धरणीयानि जगन्ति त्रीण्यपीत्यभान् । संख्यालेखा इव तिस्रो मूले कराब्जयोः ॥४५।। वर्तुलोऽनतिदीर्घश्च लेखात्रयपवित्रितः । गम्भीरध्वनिराधत्ते कण्ठः कम्बुविडम्बनाम् ॥४६॥ विमलं वर्तुलं कान्तितरङ्गि वदनं विभोः । पीयूषदीधितिरिवापरो लाञ्छनवर्जितः ॥४७॥ मसृणौ मांसलौ स्निग्धौ कपोलफलको प्रभोः । दर्पणाविव सौवर्णों वाग्लक्ष्म्योः सहवासयोः ॥४८॥ अन्तरावर्तसुभगौ की स्कन्धान्तलम्बिनौ । प्रभोर्मुखप्रभासिन्धुतीरस्थे शुक्तिके इव ॥४९॥ ओष्ठौ बिम्बोपमौ दन्ता द्वात्रिंशत् कुन्दसोदराः । क्रमस्फारा क्रमोत्तुङ्गवंशा नाशा महेशितः ॥५०॥ अहस्वदीर्घ चिबुकं मांसलं वर्तुलं मृदु । मेचकं बहुलं स्निग्धं कोमलं श्मश्रु तायिनः ॥५१।। प्रत्यग्रकल्पविटपिप्रवालारुणकोमला। प्रभोजिह्वाऽनतिस्थूला द्वादशाङ्गागमार्थसः ॥५२॥ अन्तरा कृष्णधवले प्रान्तरक्ते विलोचने । नीलस्फटिकशोणाश्ममणिन्यासमये इव ॥५३॥ ते च कर्णान्तविश्रान्ते कज्जलश्यामपक्ष्मणी। विकस्वरे तामरसे निलीनालिकुले इव ॥५४॥ विभराञ्चक्रतुर्भत्तु: श्यामले कुटिले ध्रुवौ । दृष्टिपुष्करिणीतीरसमुद्भिन्नलताश्रियम् ॥५५॥ १० लम्बितौ-वं. मु. ॥ स्कन्धावलम्बि नौ-त्रिषष्टि० १।२ । ७१७ ॥ २ विपुलं-खं. ॥ Jain Education Intel For Private & Personal Use Only Paw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy