________________
स्वामिनः कुअरस्येव मुष्की गूढौ समस्थिती। अतिगूढं च पुंश्चिहनं कुलीनस्येव वाजिनः ॥३१॥ तच्चासिरमनिम्नोच्चमहूस्वादीर्घमश्लथम् । सरलं मृदु निर्लोम वर्तुलं सुरभीन्द्रियम् ॥३२॥ शीतप्रदक्षिणावर्त्तशब्दयुक्तैकधारकम् । अबीभत्सावर्त्ताकारकोशस्थं पिञ्जरं तथा ॥३३॥ आयता मांसला स्थूला विशाला कठिना कटिः। मध्यभागस्तनुत्वेन कुलिशोदरसोदरः ॥३४॥ नाभिर्वभार गम्भीरा सरिदावर्तविभ्रमम् । कुक्षी स्निग्धौ मांसवन्तौ कोमलौ सरलौ समौ ॥३५॥ अधाद् वक्षःस्थलं स्वर्णशिलापृथुलमुन्नतम् । श्रीवत्सरत्नपीठाझं श्रीलीलावेदिकाश्रियम् ॥३६॥ दृढपीनोन्नतौ स्कन्धौ ककुद्मन्ककुदोपमौ । अल्परोमोन्नते कक्षे गन्धस्वेदमलोज्झिते ॥३७॥ पीनौ पाणिफणच्छत्रौ भुजावाजानुलम्बिनौ । चञ्चलाया नियमने नागपाशाविव श्रियः । ३८॥ नवाम्रपल्लवाताम्रतलौ निष्कर्मकर्कशौ । अस्वेदनावपच्छिद्रावृष्णौ पाणी जगत्पतेः ॥३९॥ दण्ड-चक्र-धनु-मत्स्य-श्रीवत्स-कुलिशाङ्कुशैः । ध्वजा-ऽन्ज-चामर-च्छत्र-शङ्ख-कुम्भा-ऽब्धि-मन्दरैः ॥४०॥ मकर-र्षभ-सिंहा-ऽश्व-रथ-स्वस्तिक-दिग्गजैः । प्रासाद-तोरण-द्वीपैः पाणी पादाविवाङ्कितौ ॥४१॥ अङ्गुष्ठाङगुलयः शोणाः सरलाः शोणपाणिजोः । प्ररोहा इव कल्पद्रोः प्रान्तमाणिक्यपुष्पिताः ॥४२॥
॥४९॥
१.फणि मु.। 'फणा --त्रिषष्टिः १।२।। ७०६॥ २०लम्बितौ-खं. मु.॥ ३ निष्कम्प्रकर्कशौ-खं.॥ 13
For Private & Personal use only
Jain Education Intel
O
w.jainelibrary.org