SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ स्त्रोपज्ञ'वृत्ति विभूषितं योगशास्त्रम् 11 22 11 Jain Education Inter नतार्त्तिच्छेदनायेव प्रपदे चक्रमीशितुः । सदास्थित श्रीकरेणोरिव दामाङ्कुशध्वजाः ||१९|| स्वामिनः पादयोर्लक्ष्मीलीला सदनयोरिव । शङ्खकुम्भौ तले पाणै स्वस्तिकथ विरेजिरे ॥२०॥ मांसलो वर्तुलस्तुङ्गो भुजङ्गमफणोपमः । अङ्गुष्ठः स्वामिनो वत्स इव श्रीवत्सलाञ्छितः ||२१|| प्रभोर्निवातनिष्कम्पस्निग्धदीपशिखोपमाः । नीन्ध्रा ऋजवोऽङ्गुल्यो दलानीव पदाब्जयोः ॥२२॥ नन्द्यावर्ता जगद्भर्तुः पादाङ्गुलितलेष्वभान् । यद्विम्बानि क्षितौ धर्म्मप्रतिष्ठाहेतुतां ययुः ||२३|| यवाः पर्वस्वङ्गुलीनामधो वापीभिराबभुः । उप्ता इव जगल्लक्ष्मीविवाहाय जगत्प्रभोः ||२४|| कन्दः पादाम्बुजस्येव पाणिर्वृत्तायतः पृथुः । अङ्गुष्ठाङ्गुलिफणिनां फणामणिनिभा नखाः ||२५|| हेमारविन्दमुकुलकर्णिका गोलकश्रियम् । गूढौ गुल्फौ वितेनाते नितान्तं स्वामिपादयोः || २६॥ प्रभोः पादावुपर्यानुपूर्व्या कूर्म्मवदुन्नतौ । अप्रकाशसिरौ स्निग्धच्छवी लोमविवर्जितौ ॥२७॥ अन्तर्मनास्थिपिशितपुष्कले क्रमवर्चले । एणीजङ्घाविडम्बिन्यौ जगौय जगत्पतेः ॥२८॥ जानुनी स्वामिनोऽधातां वर्तुले मांसपूरिते । तूलपूर्णपिधानान्तः क्षिप्तदर्पणरूपताम् ||२९|| ऊरू च मृदुल स्निग्धावानुपूर्व्येण पीवरौ । विभराश्चक्रतुः प्रौढकदली स्तम्भविभ्रमम् ||३०|| १ प्रपेदे खं. मु.।" पादाग्रं प्रपदम् " अभि० चि० ३ । २८१ ॥ २ वक्ष - शां. । " क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् । " अभि० चि० ३ | २६६ ॥ ३ निर्धात-खं. मु. ॥ ४ म्पा स्नि- मु. ॥ For Private & Personal Use Only प्रथम: प्रकाशः श्लोक: १० ॥ ४८ ॥ 5 10 wjainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy