SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ॥४७॥ तस्याश्च कुक्षौ सर्वार्थविमानादवतीर्णवान् । चतुर्दशमहास्वमसूचितः प्रथमो जिनः ॥७॥ नाभेश्च मरुदेव्याश्च तदा सम्यगजानतोः । स्वमार्थमिन्द्राः सर्वेऽपि व्याचक्रुः प्रमदोन्मदाः ॥८॥ ततः सुखेन जातस्य शुभेऽति परमेशितुः । षट्पञ्चाशद् दिक्कुमार्यः सूतिकर्म प्रचक्रिरे ॥९॥ मेरुमूर्ध्नि विभुं नीत्वा कृत्वोत्सङ्गे दिवस्पतिः । तीर्थोदकैरम्यपिञ्चत् स्वं च हर्षाश्रुवारिभिः ॥१०॥ वासवेन ततो मातुरर्पितस्य जगद्गुरोः। धात्रीकर्माणि सर्वाणि विदधुर्विबुधस्त्रियः ॥११॥ निरीक्ष्य ऋषभाकारं लक्ष्मोगै दक्षिणे प्रभोः। चक्रतुः पितरौ नाम ऋषभेति प्रमोदतः ॥१२॥ अमन्दं दददानन्दं सुधारश्मिरिव प्रभुः। त्रिदशैत्रिदशाहारपोषितो ववृधे क्रमात् ॥१३॥ अन्येद्युर्युसदामीश उपासितुमुपागतः। अचिन्तयद्भगवतो वंशः के इव कल्प्यताम् ॥१४॥ अवगत्य तदाकूतमवधिज्ञानतो विभुः। तत्करेक्षुलतां लातुं करीव करमक्षिपत् ॥१५॥ तां समर्प्य जगभर्तुः प्रणम्य च बिडौजसा । इक्ष्वाकुरिति वंशस्य तदा नाम प्रतिष्ठितम् ॥१६॥ बाल्यं कल्यमिवोल्लङ्घय मध्यन्दिनमिवार्यमा। विभुर्विभक्तावयवं द्वितीयं शिश्रिये वयः॥१७॥ यौवनेऽपि मृदू रक्तौ कमलोदरसोदरौ। उष्णावकम्प्रावस्वेदी पादौ समतलौ प्रभोः ॥१८॥ १ त्रिदशाहारयोगेन पोषितो-मु.॥ २ क इह-मु.॥ ३ इत आरभ्य ६३ पर्यन्ताः प्रायः सर्वेऽपि श्लोकाः समानप्रायाः त्रिषष्टिः १।२। ६८५-७३० ।। 10 ॥१७॥ Jain Education in For Private & Personal Use Only soww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy