________________
स्वोपज्ञवृत्तिविभूषितं
प्रथमः प्रकाश: श्लोकः १० ॥ ४६ ॥
योगशास्त्रम्
स्यान्मनःपर्ययो ज्ञानं मनुष्यक्षेत्रवर्तिनाम् । प्राणिनां समनस्कानां मनोद्रव्यप्रकाशकम् ॥३॥ ऋजुश्च विपुलश्चेति स्यान्मनःपर्ययो द्विधा । विशुद्धयप्रतिपाताभ्यां विपुलस्तु विशिष्यते ॥४॥९॥
केवलज्ञानलक्षणफलोपदर्शनेन योगमेव स्तौतिअहो योगस्य माहात्म्यं प्राज्यं साम्राज्यमुहहन् ।
अवाप केवलज्ञानं भरतो भरताधिपः ।। १० ॥ अहो इत्याश्चर्ये, प्राज्यं पुष्कलं साम्राज्यं चक्रवर्तित्वमुद्वहन्नेव, न पुनस्त्यक्तराज्यसम्पत् , भरताधिपः षट्खण्डभरतक्षेत्रस्वामी। तथाहि
एतस्यामवसर्पिण्यामेकान्तसुषमारके । सागरोपमकोटीनां चतुष्कोटिमिते गते ॥१॥ सागरोपमकोटीनां तिसृभिः कोटिनिर्मिते । अरके सुषमानाम्नि द्वितीयेऽपि गते सति ॥२॥ तद्विकोटीकोटिमिते सुषमदुःषमारके । पल्याष्टमांशशेषेऽन्तर्दक्षिणार्धस्य भारते ॥३॥ सप्ताभूवन् कुलकरा इमे विमलवाहनः । चक्षुष्मांश्च यशस्वी चाभिचन्द्रोऽथ प्रसेनजित् ॥४॥ मरुदेवश्च नाभिश्च तत्र नाभेगृहिण्यभूत् । मरुदेवेति सच्छीलपवित्रितजगत्त्रया ॥५॥ तृतीयारस्य शेषेषु पूर्वलक्षेषु संख्यया। चतुरशीती सार्धाष्टमासे वर्षयेऽपि च ॥६॥ १ द्वितीये विगते खं. ॥ २ कोटाकोटि-मु.॥
10
Jain Education Intera
For Private & Personal use only
O
jainelibrary.org