________________
।। ४५ ।।
Jain Education Inter
चारणाः । नानाद्रुमलता- गुल्म- पुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराधयन्तः कुसुमतलदलावलम्बनासङ्गगतयः पुष्पचारणाः । नानावृक्षगुल्मवीरुल्लता वितान नानाप्रवालतरुणपल्लवालम्बनेन पर्णसूक्ष्मजीवान विराधयन्तश्चरणोत्क्षेपनिक्षेपपटवः पत्रचारणाः । चतुर्योजनशतोच्छ्रितस्य निषधस्य नीलस्य चाद्रेष्टङ्कच्छिन्नां श्रेणिमुपादायोपर्य्यधो वा पादपूर्वकमुत्तरणावतरण निपुणाः श्रेणिचारणाः । अग्निशिखामुपादाय तेजः कायिकान विराधयन्तः स्वयमदह्यमानाः पादविहार निपुणा अग्निशिखाचारणाः । धूमवत्तं तिरश्रीनामूर्द्धगां वा आलम्ब्यास्खलितगमनास्कन्दिनो धूमचारणाः । नीहारमवष्टभ्याकाकिपीडामजनयन्तो गतिमसङ्गामनुवाना नीहारचारणाः । अवश्यायमाश्रित्य तदाश्रयजीवानुपरोधेन यान्तोऽवश्यायचारणाः । नभोवर्त्मनि प्रतितजलधरपटलपटास्तरणे जीवानुपघातिचङ्क्रमणप्रभवो मेघचारणाः । प्रावृषेण्यादिजलधरादेर्विनिर्गतवारिधाराबलम्बनेन प्राणिपीडामन्तरेण यान्तो वारिधाराचारणाः । कुब्जवृक्षान्तरालभाविनभः प्रदेशेषु कुब्जवृक्षादिसम्बद्धमर्कटकतन्त्वालम्बनपादोद्धरणनिक्षेपावदाता मर्कटकतन्तून च्छिन्दन्तो यान्तो मर्कटक तन्तुचारणाः । चन्द्रार्क ग्रहनक्षत्राद्यन्यतमज्योतीरश्मिसम्बन्धेन भुवीव पादविहारकुशलाः ज्योती रश्मिचारणाः । पवनेष्वनेक दिग्मुखेोन्मुखेषु प्रतिलोमानुलोमवृत्तिषु तत्प्रदेशावलीमुपादाय गतिमस्खलितचरण विन्यासामास्कन्दन्तो वायुचारणाः ।
तपश्चरणमाहात्म्याद् गुणादितरतोऽपि वा । आशीविषाः समर्थाः स्युर्निग्रहेऽनुग्रहेऽपि च ॥ १ ॥ द्रव्याणि मूर्त्तिमन्त्येव विषयो यस्य सर्वतः । नैयत्यरहितं ज्ञानं तत् स्यादवधिलक्षणम् ॥२॥ १ "नसङ्ग०-- मु. ॥ २० वर्तिषु - मु. ॥
૧૨
For Private & Personal Use Only
5
10
॥ ४५ ॥
jainelibrary.org